Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
000000000000000000000000
क्रमेणाष्टविधं कर्म दग्ध्वा ध्यानमयाग्निना । निर्मलं केवलं प्राप्य निवृतोऽपि क्रमादसौ ॥ १५३ ॥ इति श्रुत्वा मुनेर्वाक्यं नृपः संविनमानसः । राज्ये शतबलं न्यस्यन् व्रतार्थ यावदुत्थितः ॥ १५४ ॥ तावच्छतवलोऽवोचत् ताताहमपि संयमम् । त्वया सहाङ्गीकर्ताऽस्मि निश्चयोऽयं ममाभवत् ।। १५५ ॥ (युग्मम्.) तन्निर्बन्धमथावत्य स्वराज्ये गिरिसुन्दरम् । यौवराज्ये रत्नसारमभिषिच्य महामहम् ॥ १५६ ॥ श्रीबलशतबलावप्युभौ जातो महामुनी । असिधाराग्रनिशितं पालयामासतुव्रतम् ॥ १५७ ॥ अथान्यदा राज्यरमां भुआनो गिरिसुन्दरः । स्वप्ने कल्पद्रशाखाग्रासीनमात्मानमैक्षत ॥ १५८ ॥ प्रत्यूषे मङ्गलातोधैः प्रबुद्धोऽथ घराधवः । महत् स्वप्नफलं ध्यायन प्रापोद्याने जिनालयम् ॥ १५९ ॥ नत्वार्हन्तं बहिश्चततले वीक्ष्य महामुनिम् । पञ्चधाभिगमनत्वाशृणोत् तद्धर्मदेशनाम् ॥ १६०॥ संवेगरङ्गमापन्नः प्रोवाच धरणीधवः । रत्नसारकुमारं तं व्रताभिप्रायमात्मनः ॥ १६१ ॥ सोऽपि प्रोत्साहयामास तं स्वयं व्रतकाक्षया । निवेश्य राज्ये सचिवानुज्ञया सुरसुन्दरम् ॥ १६२ ।। जयनन्दगुरूपान्ते प्रव्रज्योभौ यथाविधि । अवेयके नवमकेभूतामेतावुभौ सुरौ ॥ १६३ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते गिरिसुन्दररत्नसार
महर्षिचरितमष्टमं भवग्रहणम् ।
500GOOGOCOO600660000030000
For Private and Personal Use Only

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155