Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थ्वीचन्द्र चरितम् ॥ 00000000000000000000000000 महसेनोऽपि भूभर्ता श्रुत्वा तच्चरितं मुदा । सचिवान् प्रेष्य तत्पाणिग्रहोत्सवमचीकरत ॥ १४० ॥ इतो भ्रातरमन्वेष्टुं जनकानुज्ञयाचलत् । बली शतबलोऽपश्यत् तापसाश्रममग्रतः ॥ १४१ ॥ रुदन्तीस्तापसीस्तत्र दृष्ट्वाऽपृच्छत् कुमारराट् । ता अप्याहुमहद् जज्ञे प्रदेशेऽत्रासमञ्जसम् ॥ १४२ ॥ तद् दृष्ट्वा कृपया जाता वयं शोकातुरास्ततः। तदेतत् किं कुमारोक्ते ऊचुस्ता अपि तत्पुरः॥ १४३ ॥ अद्यात्र नन्दिनी पद्मरथस्यावासिता निशि । लक्ष्मणाख्या शतबलं परिणेतुं कृताग्रहा ॥ १४४ ॥ पित्राज्ञया पाण्डुपुरं प्रतस्थौ सा बलान्विता । किरातविषयेशेनार्थिता प्राक कुअरेण सा ॥ १४५ ॥ तामनासादयन् सोऽथ छलं पश्यनिरन्तरम् । प्रदेशेऽत्र समागत्य दुर्बुद्धिः सहसाहरत ॥ १४६ ।। निराशा सा शतबले बराकी मृत्युमाप्स्यति । इति संभावयन्त्योऽद्य शोकाविष्टा अमूर्वयम् ॥ १४७ ॥ श्रुत्वेति तं शतबलोऽवधावत् सबलो रिपुम् । कुञ्जरं जर्जरं कृत्वा तत्क्षणालक्ष्मणां ललौ ।। १४८ ॥ प्रशस्तेऽह्नि पाण्डुपुरं प्राप्य पाणिग्रहं व्यधात् । लक्ष्मणाया नृपाः सर्वे तद्विवाहमहं व्यधुः ॥ १४९ ॥ चत्वारोऽपि मुनिदानादवापुः सुखमद्भुतम् । जातिस्मरणतस्तेऽपि सर्वे प्राग्वृत्तमस्मरन् ॥ १५० ॥ अथ पृष्टो मुनीन्द्रस्तरपहृत्य सुलक्ष्मणाम् । तस्य विद्याधरस्याभूत को वृत्तान्तस्ततो वद ॥ १५१ ॥ भगवानाह स भ्रष्टविद्यः कष्टशतं व्रजन् । कदाचिन्मुनिवाक्यानि श्रुत्वा बुद्धोऽग्रहीद् व्रतम् ॥ १५२ ।। DOORD000000000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155