Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir POOOD9990000000 निरीक्ष्य तत्र कान्तारे यावद् विस्मयमावहन् । स्थितोऽस्त्यवहितीभूय तावच्छुश्राव तद्गिरम् ॥ १२७ ॥ (युग्मम्.) शृण्वन्तु लोकपालाद्याः पतियद्यत्र जन्मनि।श्रीवलो न भवेद् मेऽसौ भूयात् तदन्यजन्मनि ॥ १२८॥ इत्युल्लापपरा बाला तत्र स्वं सहसाऽमुचत् । चिच्छेद श्रीवल: पाशं खं चोपालक्षयंस्तदा ॥ १२९ ॥ ततः प्रमुदिता लज्जाऽवनम्रवदनाऽथ सा | स्ववृत्तान्तमशेषं तं श्रीबलाय न्यवेदयत् ॥ १३० ॥ पद्मखण्डपुरे पुत्री महसेनस्य भूपतः। नाम्ना सुलक्ष्मणा पित्राऽदायि श्रीवलभूभुजे ॥१३१॥ रममाणाऽन्यदोद्याने जहे केनापि पापिना। खेचरेण रुदन्त्यत्र मुक्ताऽस्म्येषा महावने ॥ १३२ ॥ स चापराजितां विद्या साधयन्नस्ति खेचरः । लब्धावसरया मृत्यौ मया व्यवसितं तदा ॥ १३३ ॥ एवं मिथः समुल्लापे वर्तमाने तयोस्तदा । स श्रीगुप्तः सिद्धपुत्रस्तत्रागादपतर्कितः ॥ १३४ ॥ तं वीक्ष्य श्रीबलोऽवोचत् सिद्ध ! क्रुद्धपिशाचतः । छुटितोऽसि कथं सोऽपि व्याजहार नृपाङ्गजम् ॥१३५॥ मित्र ! व्यामोहितोऽसि त्वं माययाऽनेन यत् तदा। सिद्धविद्योऽप्यभूवं त्वद्वियोगात् किन्तु दुःखभाक ॥१३६॥ त्वत्सत्त्वरजितेनापि पिशाचेन प्रियाकृते । त्वमानीय विमुक्तोऽसि विलम्ब मा कुरुष्व तत् ॥ १३७॥ गान्धर्वेण विवाहेन मियापाणिग्रहं कुरु । तथाकृते पाण्डुपुरं प्राप्ताः सर्वेऽपि विद्यया ॥ १३८ ॥ अथेदमखिलं वृत्तं पद्मखण्डपुरेशितुः । महसेननरेशस्य ज्ञापयामास पार्थिवः ॥ १३९ ॥ - 0000LBERRBELTDCDDEDD000 DOEBEORE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155