Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 125
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66666666666666336996353GS नद्या-अत्रैव भरतक्षेत्रे प्रतिष्ठानपुरे पुरे । सुमेपकुलपुत्रस्य विन्ध्यशंबरनामकौ ॥१०१॥ पुत्रौ परेतयोः पित्रोदुःस्थौ संप्रस्थितौ ततः। काश्चनाख्यपुरं काप्यन्तरा कान्दविकापणात् ॥ १०२ ॥ आदाय खाद्यमुद्यानं प्रस्थितौ तावपश्यताम् । मासोपवासिनं साधुं पारणार्थमुपागतम् ॥ १०३ ।। प्रत्यलाभयतां शुद्धर्भक्ष्येण विहिताग्रहौ । परं प्रमोदमापन्नौ प्रपन्नौ बोधिमुज्ज्वलम् ॥ १०४ ॥ (कलापकम्). अत्रान्तरे तदुद्यानयक्षपूजार्थमागते । नृपपुश्यावृद्धिवृद्धयभिधाने तदपश्यताम् ॥ १०५ ॥ अहो ! सुदानमनयोरहो ! सुकृतसञ्चयः । अहो ! सुलब्धं जनुरित्यन्वमोदयतां हि ते ॥ १०६ ॥ द्वाभ्यां दानेन चोभाभ्यामनुमोदनया तदा। शुभानुवन्धं मत्पुण्यमर्जितं मार्जितं त्वघम् ॥ १०७ ॥ मुनिदानेन सन्तुष्टौ तो विन्ध्यवराभिधौ । तत्काञ्चनपुरं प्राप्तो विश्रामाय बने स्थितौ ॥ १०८ ॥ अत्रान्तरे राजपट्टहस्त्याधारणमुन्मदः । अवधृयाखिलद्रङ्गेऽसमञ्जसमवर्त्तयत् ॥१०९ ॥ चन्द्रराट् प्राह भोः ! कोऽपि शूरो वीरोऽस्ति विश्रुतः । य एनं मत्तमातङ्गं वशमानयति द्रुतम् ॥११०॥ श्रुत्वेति विन्ध्यस्तत्रत्यात यत् तमनेकपम् । खदायत्वा चिरं धृत्वाऽबध्नाच्छालासु हस्तिनाम् ॥११२।। साधुवादः समुद्भुतः स चाहूतः क्षमाभुजा । उक्तश्च तव सत्त्वेन तुष्टो वृणु वरं स्वयम् ॥ ११२ ॥ विन्ध्योऽपि स्माह सर्वेषां वरागां प्रवरो वरः । यद् देवदर्शनं जातमर्थ्यते किमतः परम् ? ॥ ११३ ॥ 366060360666666660032000€ ॥६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155