Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिपन्ने तेनेति श्रतपरितोषस्तिरोहितो यक्षः । प्रातः प्राप्ताश्च ततः समन्ततः सर्वसामन्ताः ॥ ७५ ॥ अभिषिक्तोऽसौ राज्ये ख्यातो देवप्रसाद इति नाम्ना । पालयति तत्प्रभुत्वं निजसुकृतभरार्जितं सततम् ॥७६॥ भणितोऽहं तेन सखे ! आवाभ्यामर्जितं प्रभुत्वमिदम्। तदनुभवाव उभावप्यथवा भुङ्क्ष्व त्वमेवेदम् ॥ ७७ ॥ भणितं मया वयस्यादिष्टो देवेन सङ्गमो भ्रातुः । मासान्ते तत् तिष्ठ त्वमहं पश्यामि ते बन्धुम् || ७८ || कथय परं निजबन्धोरभिधां किं हेतुना स वा निरगात् । सोऽवोचद् गिरिसुन्दर नामा मे बन्धुरो बन्धुः ॥७९॥ स च पाटचरनिग्रहकृताग्रहो निर्गतोऽन्यदा नगरात् । न प्रत्यागात् तमहं विलोकयन्नागतोऽत्र सखे ! ॥ ८० ॥ श्रुत्वेति तदुक्तमहं निरगामथ तद्गवेषणायेतः । पृच्छामि वोऽध्वनीनास्तदिहग्लक्षणः पुरुषः ॥ ८१ ॥ दृष्टः कापि भवद्भिजामि यत् तत्र तं विलोकयितुम् । गिरिसुन्दरोऽथ नृपसूः श्रुत्वेत्यन्तर्मनो दध्यौ ॥ ८२ ॥ ( युग्मम). नूनं स एष पथिकप्रोक्तो देवप्रसादपरनामा | देवप्रदत्तराज्यो विराजते रत्नसार इति ॥ ८३ ॥ निश्चित्येति तमध्वगमवक् स भोस्तप्यसे वयस्यकृते । देवप्रसादमीक्षितुमपि यदकुण्ठा ममोत्कण्ठा ॥ ८४ ॥ विनयादिना हरिष्यामि मानसं मानसंकुलं तस्य । नृपतेस्तथा यथाऽसौ नहि स्वबन्धोरपि स्मर्त्ता ॥ ८५ ॥ उक्त्वेति तावुभावपि चलितौ गन्धारपुरवरं प्राप्तौ । गिरिसुन्दरोऽथ मुमुदे निरीक्ष्य तं रत्नसारनृपम् ॥८६॥ कृतरूपपरावर्त्तं गिरिसुन्दरमनुपलक्ष्य भूपोऽपि । प्राह वयस्थं कोऽयं महानुभावः १ स चाचख्यौ ॥ ८७ ॥
For Private and Personal Use Only
॥५९॥

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155