Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वी कन्द 900009 www.kobatirth.org १३ ॥ १४ ॥ मथुरायामथो चन्द्रध्वजस्य वसुधापतेः । आस्तां चन्द्रमतिः सूरमतिः पत्न्यावुभे शुभे ॥ ११ ॥ शशिलेखासूरलेखाऽभिधाने च तयोः क्रमात् । पुत्र्यावभतां सद्रूपलावण्य भरभूषिते ।। १२ ।। अनयोर्जन को ऽकार्षीदनुरूपवराप्तये । स्वयवरं समाहूतास्तत्र सर्वेऽपि भूधवाः ॥ पद्मोत्तरकुमारोऽपि परिमेयपरिच्छदः । स्फुरद्विपुलनेपथ्यः प्रस्थितो मधुरां प्रति ॥ कुमारो लङ्घयन्मार्ग वीक्ष्यैकं तापसाश्रमम् । नत्वा कुलपति तत्र निषण्णस्तत्पदान्तिके ॥ १५ ॥ ततः कुलपतिस्तस्य पुरः कन्यां मनोरमाम् । उपादाय जगौ वत्स ! स्वीकुर्वेतां निजोचिताम् ॥ १६ ॥ कुमारोऽवग् मुने ! ब्रह्मभृतां वः स्यात् कुतः सुता ? । जगौ कुलपतिवत्स ! परमार्थ शृणु स्वयम् ॥ १७ ॥ अस्त्युत्तरस्यां सुरभिपुरं तत्र धराघवः । वसन्तराजस्तत्पत्नी पुष्पमालेति चाभवत् ॥ १८ ॥ गुणमालाऽऽह्वया पुत्री तयोः पञ्चसुतोपरि । जाता ततोऽस्त्यभिमता पित्रोः सा पुत्रतोऽधिकम् ॥ १९ ॥ न व्यवाहयतां चैतां पितरौ विरहातुरौ । तद्रूपमोहितश्चम्पापतिरागाच्छु कोऽन्यदा ॥ २० ॥ सचिवमेरितो भूपः प्रादात् तस्मै च तां सुताम् । पुत्रीवियोगभीरुचातिष्ठिपत् तं निजे पुरे ॥ २१ ॥ रममागः समं प्राणप्रेयस्या स तया समम् । अतिव्रजन्तं नाज्ञासीत् समयं नमयन्नरीन् ॥ २२ ॥ क्षारत्वेनैव यत् सिन्धोः कलङ्केन विधोरिव । मृगयाव्यसनेनास्य दोषोऽभूद् दुस्त्यजस्तथा ॥ २३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरितम्

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155