Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्
DO066GOGOCCOGOOOOOO3006€
यत्नेन तदवरोधं रक्षतु देवोऽस्तु पौरवर्गोऽयम् । आकर्ण्यति नृपो यावत् किंकर्तव्यतामृदः ॥ १० ॥ कृतनतिना विज्ञप्तस्तावद् गिरिसुन्दरेण सप्ताहात् । देवाज्ञया लभेऽहं तमेष चौरं दुराचारम् ॥११॥ नरदेवेनाज्ञप्ती नियुक्तवान भूपभूः स्वचरपुरुषान् । तैरपि न कोऽपि लेभेततः स निरगात् स्वयं नगरात् ॥ १२ ॥ शून्योद्यानादिषु पर्यटस्ततो नाति रगिरिशृङ्गे । दृष्ट्वा ज्वलन्तमग्निं यावत् तदुपान्तमभिसरति ॥ १३ ॥ दृष्टश्च तत्र गुग्गलममिदाहुतितत्परो नरः कोऽपि । तत्सन्निधावसिध्यद् दुःसाध्यः क्षेत्रपालोऽस्य ॥ १४ ॥ स क्षेत्रपस्तमूचे सिद्धोऽस्मि तवास्य नुमहिम्नैव । अन्तर्हिते च तस्मिन् स साधकस्तं कुमारमवक् ॥ १५ ॥ सत्पुरुष ! कृतो भवता विहितागतिना ह्यनुग्रहोऽयं मे । तद् भण किं ते संपादये ततो भूपभूरगदत् ॥ १६ ॥ कृतकृत्योऽहं विद्यासिद्धया तव चार्थये किमपरं भोः। एवमनिच्छायादाद् विद्या रूपान्तरकरी सः॥ १७ ॥ अत्रान्तरेऽधिपुरमुरुकरुणं तरुणीरवं समाकर्ण्य । हियते दुरात्मनेयं काऽपीत्यभिधावितस्तमसौ ॥ १८ ॥ न च कञ्चनाप्यपश्यत् तत्राप्यथ निश्चिकाय गिरिदाम्। निवसनसो दुरात्मा कथं परिज्ञास्यत इदानीम् ॥१९॥ हुं ज्ञातं स्त्रीलोलोऽयं तावत् तद् दधे युवतिरूपम् । दृष्टस्तथाको निर्गच्छन् देवकुलिकातः ॥ २० ॥ कापालिश्वेषधरं दृष्ट्वा हन्मीति वा न दर्शनभृत् । वध्योऽसावविमृश्यारुददथ कृतकं स जिज्ञासुः ॥२१॥ रुदितश्रवणादथ सोऽप्यागाद् दृष्ट्वा च तत्पवररूपम्। प्राह स्म किमत्रैकाकिनी कथं रोदिपि च भद्रे? ॥२२॥
00000000000000000000000000
-
।
।
For Private and Personal Use Only

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155