Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो भवः।
PORIC000000000000000000000
अस्त्यत्र पाण्डुविषये पाण्डुपुरं श्रीवलो नृपस्तत्र । जयतीह तत्कनीयान् युवराजः शतबलो नाम ॥ १ ॥ तो रामलक्ष्मणाविव मिथो धनप्रेमबन्धुरौ बन्धू । पालयतः पितृदत्तं प्राज्यं साम्राज्यमभियुक्तौ ॥ २ ॥ दयिते तयोयोरपि सुलक्ष्मणालक्ष्मणाभिधाने च । पद्मोत्तरर्भुरभवत् सुलक्ष्मणायाः सुतत्वेन ॥३॥ गाङ्गेयगिरिस्वमानुसारतः स गिरिसुन्दरो नाम । हरिवेगसुरोऽपि सुतत्वेनाभूल्लक्ष्मणाकुक्षौ ॥४॥ रत्नोच्चयसुस्वप्नानुसारतो रत्नसार इति नाम्ना । तो प्रेमशृङ्खलयितौ द्वावप्येकत्र रेमाते ॥५॥ आस्थानसंस्थितोऽथान्यदा बली श्रीबलो नृपः पौरैः । विज्ञप्तो दुःखात्तैस्त्वयि राज्यपि नो महद् व्यसनम् ॥ ६ ॥ हियते कमला महिला गृहाङ्गणगता प्रसह्य केनापि । न च दृश्यतेऽत्र कश्चिद् देवो वा दानवो वाऽपि ॥ ७ ॥ श्रुत्वेति नृपोऽप्याहूयारक्षमतर्जयच्च किं रे त्वम् । स्वपिषि निशि न भ्रमनसि निशितासिकरः पुरस्यान्तः ॥ ८ ॥ आरक्षोऽप्यवददहं भ्रमामि पुरगोपुराणि पिदधामि । धावन्नपि तं दस्युं न लभे तु शणोमि जनरावम् ॥ ९॥
100000000000000000000000000
-
थ्वीन्द्र
-
For Private and Personal Use Only

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155