Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत्रान्तरे वनपालोsवनीपालं व्यजिज्ञपत् । स्वामिन् ! वर्द्धाप्यसे स त्वं केवल्यागमनेन यत् ॥ पद्मोत्तरहरिवेगान्वितो नृपतिस्ततः । वन्दनाय गतस्तत्राशृणोत् तद्देशनां मुदा ॥ प्रबुद्धो भूपती राज्यं त्यक्त्वा प्रव्रज्य दुस्तपम् । तपस्तप्त्वा दग्धकर्मा प्रपेदे परमं पदम् ॥ पद्मोत्तरः श्राद्धधर्म प्रपन्नोऽथ पितुः पदे । हरिवेगेनाभिषिक्तः प्राज्यं राज्यमपालयत् ॥ अथान्यदा हरिवेगः पद्मोत्तरं निजं पुरम् । नीत्वोवाच सखे ! विद्या अनवद्या गृहाण मे ॥ आदत्स्व खेचरैश्वर्य सोऽवक भ्रातस्त्वमेव मे । द्वितीयतनुभूतोऽसि तद् यस्यासि त्वमीशिता ॥ तस्याहमप्यधीशोऽस्मि तथा धर्मप्रदानतः । दातव्यं यत् तु दत्तं तत् किमतोऽप्यस्ति यद् वरम् ॥ तत् पालयावः स्वे राज्ये यावत् पुत्रोद्भवो भवेत् । ततो राज्यधुरं दवा चरिष्यावो व्रतं स्वयम् ॥ इत्थं मिथो मन्त्रयित्वा शाश्वतार्हद् गृहादिषु । कृत्वा यात्रामुभौ गज्जणकं नगरमापतुः ॥ अथान्यदोभौ नृपती नत्वाच्चैत्यमाहतौ । निवृत्तौ तावता यष्टिमुष्टिघातार्त्तलोचनम् ॥ आमुक्तकेश कौपीनवाससं धूलिधूसरम् । निन्द्यमानं जनैर्ऋतकृतमेकमपश्यताम् ॥ कृपाद्र तावथोचाते भोः ! किमेषोऽर्थते भृशम् । आख्यत् कोऽप्यत्र कोटीशवरुणश्रेष्ठिनन्दनः ॥ द्यूतव्यसनदोषेण पित्रा निर्वासितो गृहात् । तथापि न जहौ दैवहतकोऽसौ दुरोदरम् ॥
For Private and Personal Use Only
१०१ ॥
१०२ ॥
१०३ ॥
१०४ ॥
१०५ ॥
१०६ ॥
१०७ ॥
१०८ ॥
१०९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
११० ॥
१११ ॥ ( युग्मम् )
११२ ॥
११३ ॥
90000900SL, DIAMD999999999968

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155