Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्रा
चरितम्
00000000000000omoeoSERSAR
कलावतीशलभवाद्धरिवेगभवावधि । तारवेगः सुसंवेगः केवल्युक्तं मुदाऽशृणोत् ॥ १२॥ (युग्मम् ). प्रबुद्धस्तारवेगोऽथ दत्वा राज्यं स्वसूनवे । तदङ्घिमूले प्राब्राजील कर्मनिर्मूलनोद्यतः ॥ ६३ ॥ जातजातिस्मृतिश्चान्यः श्राद्धधर्म प्रपेदिवान् । सम्यग्दर्शनपूतात्मा पालयद् द्वादशवतीम् ॥ ६४ ॥ अन्यदाऽवसरं प्राप्य नृपोऽपृच्छन्मुनीश्वरम् । भूरसेनः प्रभो! कुत्रोत्पेदे कि नामभृच्च सः ॥६५॥ सुनापो बोधिरस्यास्ति दुःप्रापो वा विभो ! बद । स जगौ गज्जणेशस्याङ्गभूः पद्मोत्तराभिधः ॥ ६६ ॥
संप्रत्यस्ति सुबोधिश्च न पुनर्धर्ममाप्तवान् । सामग्र्यभावाद् यद् योग्योऽप्याप्नुते न प्रतिक्रियाम् ॥ ६७ ॥ यतः --योग्योऽपि धर्मरत्नस्य प्राणी बोधि न चाप्नुते । विशुद्धधर्मचरितं धर्माचार्यमनाप्नुवन् ॥ ६८ ॥
त्वत्त एवाधिगम्याईन्मतं घोषिं स चैष्यति । श्रुत्वेति तोपमगमद्धरिवेगः स वेगतः ॥ ६९ ॥ क्रमेण श्रेणियुग्मैश्यं प्रपन्नस्तारवेगमः । पद्मोत्तरकुमारस्य दिटक्षोत्कण्ठयाऽभ्यदा ॥ ७० ॥ गज्जणं मण्डलं प्राप्तः स एकाक्यपि खेचरः । ओतुमेकं महाकायं विकृत्याञ्जनसन्निभम् ॥ ७१ ॥ वराटिकालम्भिरलं समलङकृतहृद्गलम् । सुवर्णकिङ्किणीस्फूर्जत्ताररत्नगणाकरम् ।। ७२ ॥ सुवर्णशृङ्खलाबद्धं गृहीत्वाऽगाचतुष्पथम् । कौतुकाम्मिलिता लोकाः पृच्छन्त्येनं किमेष भो। ७३ ॥ विक्रेयः किञ्च मूल्यं सोऽप्याह स्म स्वर्णलक्षकम् । जनोऽवगोतुमात्रस्येयन्मूल्यं किं भवत्यहो॥७४|| (पञ्चभिः कुलकम्।।
Các tin TTTTT
For Private and Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155