Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किं नागवधूरथवा देववधूरानयामि वशमधुना ? । किं वाऽवनिं सार्णवां नयामि द्राक् तवाङ्घ्रितले ? ॥ १० ॥ गजवाजिवृन्दमथवा किं दूरादानयामि चान्यदपि ? । विषमं प्रयोजनं भण यत् संप्रति साधयाम्येषः ॥ ११ ॥ अवदद् नृपोऽपि योगिन्नानय नागाङ्गनां यदसि शक्तः । सोऽप्यानिनाय तामपि धृत्वा ध्यानं क्षणादेव || १२॥ सा योगिनः पुरस्तात् स्थिताऽऽख्यदादिश विभो ! प्रकुर्वे किम् ? । सोऽप्याचख्यौ कुरु नरवरस्य गिरमिति तदादिष्टा ॥१३॥ एत्य नृपमादिश विभो ! जल्पन्ती भाषितेति सा राज्ञा । का त्वं किमिहायाताऽसि ? वाऽत्र सावोचदिति तं च ॥ १४ ॥ नागेश्वरदयिताऽस्म्यहमादेशाद् योगिनोऽत्र चायाता । अथ विस्मितेन राज्ञाऽप्यसौ विसृष्टा तिरोधत ॥ १५ ॥ माहात्म्यमहो ! योगीन्द्र ! तेऽद्भुतं जल्पतेति भूपेन । ऊचे कार्य सोऽप्याख्यत् कृष्णचतुर्दशीरात्रौ ॥ १६ ॥ एकाक्येव सहायो भव येन ज्वालिनीं महाविद्याम् । आराध्य पुत्ररत्नं सर्वेष्टं दापये चान्यत् ॥ १७ ॥ मन्त्रिभिरूचे राजन् ! भव्य उपायस्तथापि नास्य मनाक् । विश्वस्तव्यं यदिह स्याच्चित्रचरित्रभृत् प्राणी || १८ || प्रतिपद्य मन्त्रिवचनं तदुपान्ते निश्चितेऽह्नि निशि भूपः । प्राप्तोऽसियुक् श्मशानं योग्यपि तत्रागतश्च तदा ॥ १९ ॥ संमाये भुवं योगी चिताऽग्निदीपेन मण्डलालेखम् । कुर्वन् जगाद नृपतिं वटद्रुमो दक्षिणेनेतः ॥ २० ॥ उद्बद्धः शाखायां तस्य नरो यस्तमानयास्तभयः । न च तस्मै दातव्यं प्रतिवचनं जल्पतेऽपि गम् ॥ २१ ॥ fif पाशं च यावदुत्तीर्णः । तावत् तथैव तं तरुशाखास्थं पश्यति नृनाथः ॥
२२ ॥
For Private and Personal Use Only
300556
॥४७॥

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155