Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra 1,000000000 www.kobatirth.org प्रवरावसथेष्वावासितः सोऽपि सगौरवम् । क्रमेण सर्वराजन्यकुमारेष्वागतेष्वथ || ३६ || सायमा घोषणाकारि सर्वतोऽपि नृपेण यत् । सर्वैः प्रातः समागम्यं स्वयंवरणमण्डपे ॥ ३७ ॥ दध्यौ देवरथः किन्नु भूषाद्याडम्बरेण चेत् । भाग्यं मे तद् वृणीते मां कन्या सामान्यमप्यहो ? ॥ ३८ ॥ ध्यात्वेति स्ववयस्यं स्वासनि संस्थाप्य स स्वयम् । किश्चित्कुरूपो भूत्वा तत्पुरो वीणामवादयत् ॥ ३९ ॥ आगादत्रान्तरे तत्र कन्याऽऽरु सुखासनम् । तद्रूपदर्शनात् सर्वे चुक्षुभुः क्ष्माभृदङ्गजाः ॥ ४० ॥ दृष्टिर्नास्या निविष्टा तु कस्मिन्नपि नृपाङ्गजे । अरज्यत्प्राग्भवप्रेम्णा सा वीणावादके परम् ॥ ४१ ॥ सा बाला वरमालां चाक्षैप्सीत् तत्कण्ठकन्दले । जनोक्तिरिति तत्राभूद् धिग् गन्धर्वो वृतोऽनया ॥ ४२ ॥ रवितेजा निशम्येति जनवाचं विषादभाक् । दध्यौ ध्रुवं नितम्बिन्यो निम्नगा इव निम्नगाः || ४३ ॥ कृतरूपपरावर्त्ती यद्वा कोऽपि महानसौ । भावी रत्नावली स्वप्ने यन्मात्राऽस्यास्तदेक्षिता || ४४ ॥ तोsनयाऽयं गन्धर्व इत्यमर्षवशंवदाः । सर्वेऽपि भूभुजो गर्वात् समराय समुत्थिताः ॥ ४५ ॥ रवितेजा नृपस्तानित्यूचे भोः ! कोऽयमञ्जसा । अकाण्डे समरारम्भो नृपाः ! शृणुत मद्वचः ॥ यदि राज्ये पञ्चदिव्यैः प्राकृतोऽपि निवेश्यते । यदिवेष्टं वरं कन्या वृणुते च स्वयंवरा ॥ तदन्येषां हि को मानभङ्गः का वा त्रपा मता ? | यदि चेर्ष्या विधास्यध्वे तदा विपदमाप्स्यथ ॥ ४६ ॥ ४७ ॥ ४८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥२८

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155