Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
0000000000000000000000000
तन्मिथ्या दुष्कृतं देहि न वाच्यं पुनरीदृशम् । यन्नयेनार्जिता लक्ष्मीः सौख्यायेह परत्र च ॥ ८७ ॥ नेष्टमस्येदमित्यन्तर्विचिन्त्य धरणोऽवदत् । नेच्छामि मनसाप्येतत् त्वच्चित्तं तु मयेक्षितम् ॥ ८८ ॥ कुर्वो नीवीं समादाय व्यवहृत्या धनार्जनम् । इति प्रत्यायितः प्रेम्णा धनस्तत् प्रतिपन्नवान् ॥ ८९ ॥ अनुक्त्वैव ततो मातृपित्रोस्तो निर्गतौ पुरात् । लङ्घयन्तौ पुरग्रामारामादीन् कापि तस्थतुः ॥ ९० ॥ धरणश्चान्यदा दध्यौ कथं नायात्यसौ गृहे । कुर्वे तत् कञ्चनोपायं लब्धधीश्चाब्रवीद् धनम् ॥ ९१ ॥ किं धर्मेण जयो भ्रातः ! पापेनाथ जने बद । आख्यत् सोऽप्येतदाबालगोपालं ख्यातमीक्ष्यते ॥ ९२ ॥ धर्मादेव जयः संपद् यशः सर्वैरवाप्यते । अधर्माच्चायशो दुःखदौर्गत्यादि भवेद् नृणाम् ॥ ९३ ॥ धरणः प्राह वातूलो वेत्सि तत्त्वं न किञ्चन । पापादेव जयो वाद उभयोरित्यभूत् तदा ॥ ९४ ॥ धरणोऽवददासनग्रामे वादस्य निर्णये । कृते योऽसत्यगीस्तस्य ग्राह्यमन्येन लोचनम् ॥ ९५ ॥ धनोऽवग ननु तथ्यो मे पक्षो नेत्रं तु नाददे । उक्त्वेति तौ गतौ ग्रामं पृष्टाः पर्षद्रता जनाः ॥ ९६ ॥ तेऽवोचन् साम्पतं पापाद् जयो धर्माच्च नेक्ष्यते। श्रुत्वेति धरणो हृष्टः प्राह देयं त्वयाऽक्षि मे ॥ ९७ ॥ द्वितीयस्मिन्नपि दिने विवदन्तौ तथैव तौ। पणीकृत्य द्वितीयाक्षि पुनाम्यानपृच्छताम् ॥ ९८ ॥ ग्राम्यैः पुनस्तथैवोक्तं ततस्तो जग्मतुर्वनम् । उवाच धरणोऽद्यापि प्रतिपद्यस्व मद्वचः ॥ ९९ ॥
0BCCESOOOOTEESOGGEScecom
For Private and Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155