Book Title: Nandanvan Kalpataru 2019 11 SrNo 43 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ अद्यत्वे, अस्माकं देशे शिक्षणस्य (प्रास्ताविकम)) स्तरः शनैः शनैस्तथा निम्नो जातोऽस्ति यथा शालेया ध्ययनानन्तरं पित्रादिभिरुत्तमशिक्षणार्थं बहवो विद्यार्थिनो विदेशेषु प्रेष्यन्ते । शालेयाध्ययनस्याऽपीयमेव परिस्थितिः । एतत्त्वन्यद् यत् प्रायशो देशे सर्वत्र बहुधा विश्वविद्यालया महाविद्यालयाः शालाश्चाऽर्थार्जनायाऽनिवार्यां पदवीं दातुं तु समर्था एवेति कृत्वा विद्यार्थिभिः सङ्कीर्णा दरीदृश्यन्ते । परं ज्ञानार्जनं, विकासः सर्जनात्मकता, विचारशक्तिरित्यादिभिः परिपूर्णमेकं समुज्वलं भावि निर्मातुं त्वेते महाविद्यालया विश्वविद्यालया वा सर्वथाऽसमर्था एव । यतो बहुशो सामान्या जनाः शिक्षणक्षेत्रीयाश्चाऽपि जनाः शिक्षणं नाम किमिति सर्वथा न जानन्ति, नाऽपि च शिक्षणविषये गभीरं विचारं कर्तुं सज्जाः । यदि जीवने किमप्युच्चतरं ध्येयं साधनीयं, जनोपयोगि वा किमपि कार्यं कर्तव्यं तदा शिक्षणं - वास्तवं शिक्षणं किमित्येतत् सर्वथा स्पषटतया पूर्णतया च ज्ञातव्यं बोद्धव्यं च, तदनु च तद्बोधानुसारमेव च विद्यालयादीनां संरचना कर्तव्या - इत्येतत् सर्वथाऽऽवश्यकमनिवार्य चाऽपि। यदि वयमेतस्यां दिशि सज्जतयाऽग्रेसरीभवामस्तदैव शनैः शनैरस्माकं राष्ट्रेऽपि नालन्दातक्षशिलादिसदृशा विश्वविद्यालया पुनरपि विनिर्मीयेरन् पुनरपि च देशविदेशेभ्यो विद्यार्थिनां प्रवाहो भारतं प्रति प्रवहेत् । परन्त्वेतदर्थं मूलादेव विचारविमर्श कृत्वा स्पष्टो बोधः प्राप्तव्य एव । स्पष्टो बोधो यदि प्राप्येत तदाऽर्धं युद्धं तु जितमेवाऽस्माभिः । यतो मूलं यदि दृढं स्यात् तदैव भवनं सुस्थिरं चिरस्थायि च सम्भवेत् । किन्तु वयं भारतीया ह्यद्यत्वे विचारणमेव विस्मृतवन्त इति प्रतिभाति । ततश्च सम्यग्बोधो नैव प्राप्येत । फलतश्च विचाररहिता दिङ्मूढाश्च सर्वेऽपि वयं कुमार्गे विपरीतदिशि चैव प्रतिष्ठामहे । अतः स्पष्टो बोधः सर्वथाऽऽवश्यक एव, तदर्थं च विशदो विचारोऽपि करणीय एव।। तत्र च, शिक्षणं यस्मै दातव्यं स मनुष्यः (विद्यार्थी) नैकेषां तत्त्वानां सम्मेलनमस्ति । तत्रापि द्वे तत्त्वे सर्वथा प्रकटिते प्रसिद्धे च - शरीरमन्तःकरणं च । शरीरं तु सर्वविदितमेव । अन्तःकरणं च - चित्तं,मनः, हृदयं, बुद्धिः,अहङ्कार इत्यादिभिः सज्ञाभिरस्माकं परिचितमेव । शरीरस्य यथायोग्यं शिक्षाभिर्व्यायामादिरूपाभिर्विकासनं शिक्षणस्य प्रथमं सोपानम् । एतच्च शिक्षणस्याऽतीव लघुर्भागो भवेत् । बृहद्भागस्त्वन्तःकरणस्य विकासः। तत्र, चित्त-मनसोः शुद्धीकरणं, सूक्ष्मीकरणं, स्थिरीकरणं, प्राञ्जलीकरणं चाऽऽवश्यकम् । एतेषु नैतिकमूल्यानि प्रेम VIIPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 100