Book Title: Nandanvan Kalpataru 2019 11 SrNo 43 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ नन्दनवनकल्पतरोर्वाचत्वारिंशी शाखा पठिता । अद्यत्वे प्रायशो जना दूरवाणीलग्ना दृश्यन्ते। ज्ञातव्यानि कार्याणि इ-मेल द्वारा ज्ञायन्ते। पत्रलेखनमपि नास्ति। सर्वं दूरवाणी-मुखेन क्रियन्ते । प्रास्ताविके पुस्तकवाचनस्य यन्महत्त्वमुक्तं तत्तु यथोपपन्नमेव । मोक्षयशा-श्रियः “क्षमा वीरस्य भूषणम्” इति लेखः सर्वेषु स्नेहिष्यामि इति मतिं दढीकरोति । येऽस्मासु निह्यन्ति तेऽप्यस्माभिः स्नेहनीयाः । नेदमेव, येऽस्मभ्यं द्रुह्यन्ति तेऽपि स्नेहितव्या अस्माभिः । एवंविधः स्नेहशीलो जन एव वीरः । श्रीकस्तूरसूरीश्वराणां जीवनवृत्तमिदम्प्रथमतया भवत्कीर्तितैस्तेषामवदानकैः परिचायितम् । यद्यपि तेषां प्राकृतभाषारचना नाऽवगताः, तथाऽपि तेषामेव संस्कृतभाषानिबद्धं “चन्द्रचरित्रम्” तु कुसुममनोहरं द्राक्षामधुरं चाऽस्तीति पठनादनुभूतम् । तत्तु सम्यगास्वादितम् । तत्र “बभूविवान्” इत्यादयोऽपरिचिताः प्रयोगा अपि दृष्टाः । अन्याः कथाः हृदयङ्गमाः। “शाखाच्छेदः” इति कथायां श्येनस्य निकषा इति प्रयोगः दृष्टः । निकषायोगे द्वितीया - इति श्रुतम् । (श्येनं निकषा?)। संस्कृतानुवादेन प्राकृतद्व्याश्रय-महाकाव्यभागश्च आस्वादितः। रवीन्द्रः पालक्काडु ****** सादरं प्रणतयः। पुस्तकं सारस्वतम् । सरस्वत्याः प्रसादजम् । सुज्ञानां सारस्वतावतारः पुस्तके । प्रज्ञायाः परिपाकश्चाऽपि पुस्तके । निरन्तरपठनेन, सूक्ष्मावलोकनेन, नानाविधानुभवेन च समृद्धां स्वकीयां प्रज्ञां शब्दतोऽवतारयन्ति सुज्ञाः। यद्यपि, वक्तव्येऽपि शब्दाः प्रयुक्ताः स्युस्तथाऽपि तत्र शैथिल्यस्य सम्भावना। अन्यतः कस्मिन्नप्येकस्मिन् विषये, स्वस्थतयाकृते ध्याने, यः परिपाकः प्रस्फुरति, स एव पुस्तके प्रस्तूयते। Writing Makes a man perfect. लेखनेन जनः परिपक्वो भवति, यद्यन्यथा वाच्यं तदा, परिपक्वो जन एव लेखको भवति। अतः शास्त्रज्ञानसम्पन्नानां स्वानुभवसमृद्धानां तर्कादिभिः परीक्षितविषयाणां देशिकचरणानां कृपया प्राप्तः पुस्तक-प्रसादः, प्रासादिकः प्रोन्नतिकरश्च भवति । सम्प्राप्य पुस्तकं प्रीत्या, स्वजिज्ञासानुरूपतः। पठंश्चाऽवगत्य प्रीतः, विशिष्टश्शोभते नरः ।।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 100