Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ग्रन्थसमीक्षा
आधुनिकहिन्दुविधिः (धर्मशास्त्रीयविधिसहितः)
- डा. रूपनारायणपाण्डेयः लेखक: - प्रो.डा. वेदप्रकाश उपाध्यायः प्रकाशक: - जी. एच. पब्लिकेशन, इलाहाबाद १२१, शहराराबाग, इलाहाबाद -मो. ९५३२४९१२०५ संस्करणम् प्रथमम् ई.२०१८ । पृ.सं. २९९ । मूल्यम् - ७५०/
वेदा स्मृतयो निबन्धग्रन्थाश्च हिन्दुविधेः प्रमुखस्रोतांसि सन्ति । साम्प्रतं हिन्दुविधेर्यानि स्रोतासि समुपलभ्यन्ते, तानि सर्वाणि समीक्ष्य विद्वद्वरेण डा.वेदप्रकाश-उपाध्यायेन 'आधुनिकहिन्दुविधिः' (धर्मशास्त्रीयविधिसहितः) इति ग्रन्थः प्रणीतः।
___अस्मिन् ग्रन्थे द्वादशाऽध्याया विलसन्ति । प्रथमेऽध्याये विधेरवधारणा, विधिशासनं, नैतिकता, विधेः सर्वोपरित्वं, विधेः श्रुतिमूलकत्वं चेति विषया विचिन्तिताः । द्वितीयेऽध्याये हिन्दुविधेः स्रोतांसि वर्णितानि । तृतीयेऽध्याये विवाहविधेरवधारणा विवेचिता। चतुर्थे-ऽध्याये दत्तकग्रहणं विचारितम् । पञ्चमेऽध्याये दत्तकग्रहणपरिणामः प्रस्तुतः । षष्ठेऽध्याये उत्तरजीवितोत्तराधिकारश्च चिन्तितौ । सप्तमेऽध्याये संयुक्तपरिवारः, सहदायिकी सम्पत्तिः, स्त्रीधनं नारीसम्पच्चेति विषया विशदीकृताः । अष्टमेऽध्याये विभाजनं विस्पष्टीकृतम् । नवमेऽध्याये दानम् इच्छापत्रं धर्मदायश्चेति विषयाः समीक्षिताः । दशमेऽध्याये ऋणम् अविभाज्यसम्पदा च स्पष्टीकृते । एकादशेऽध्याये अवयस्कता संरक्षकता च सम्प्रस्तुते । द्वादशेऽध्याये भरणपोषणं वर्णितम् । उपसंहारे च विषयस्य मूल्याङ्कनं विहितम् । ग्रन्थादौ विदुषां सम्मतानि, लेखकस्य परिचयः, प्रस्तावना च शोमन्ते, ग्रन्थान्ते च राजते सहायकग्रन्थसूची।
श्रुति-स्मृतिनिबन्धग्रन्थेषु ये विधयः प्रतिपादिताः परम्परया चाऽङ्गीकृताः सन्ति, तेषां सम्मतावाधुनिकहिन्दुविधेर्विवेचनमस्य ग्रन्थस्य प्रणयनस्य प्रमुखमुद्देश्यमस्ति । तद्यथा - ग्रन्थकारः प्रस्तावनायां स्वयं निगदति - 'आधुनिकाधिनियमितहिन्दुविधेर्मूलं वेदेषु धर्म-शास्त्रेषु धर्मशास्त्रीयव्याख्याग्रन्थेषु चोपलम्यते । धर्मशास्त्रालोके आधुनिकहिन्दुविधेरनुशीलनमपेक्षितमित्यवधार्य एष ग्रन्थः प्रणीतः' । (पृ.१६) अनुशीलनेऽस्मिन् ग्रन्थकारस्य भूरिपरिश्रमः पदे-पदे दृश्यते । वेदान् विहायाऽपि धर्मसूत्राणां स्मृतीनां पुराणानां निबन्ध
18

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100