Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 67
________________ कथा समयस्य मूल्यम् - सा.श्रुतलोचनाश्रीः पश्चिमदेशे एको लॉङ्गफेलो-नामको महाँल्लेखकोऽभवत् । यौवने स महाविद्यालये पठन्नेव जीविकार्थमध्यापनमप्यकरोत्, व्ययरक्षणार्थं च गृहकार्यमपि स्वयमेवाऽकरोत् । अतस्तस्य समयन्योन्यं सदा भवति स्म। किन्तु स समयस्य मूल्यं जानाति स्म । प्रत्येक दिवसश्चतुर्विंशतिहोरामित एव भवति सर्वस्याऽपि । तत्र च प्रत्येक क्षणः सावधानतयोपयोक्तव्यो ननु । अन्यथा बहूनि कार्याणि त्यक्तव्यानि भवेयुः। विधात्रा हि निष्पक्षपातितया कोट्यधिपतिकृते दरिद्रकृते वा समयविषये तु सर्वथा साम्यवादो निर्धारितोऽस्ति । अतो यदि प्रत्येकं क्षणः सावधानतयोपयुज्येत तदा बहूनि स्वोपयोगीनि जनोपयोगीनि च कार्याणि कर्तुं शक्येरन्। __ अतः लॉङ्गफेलोऽयं सूक्ष्मतया स्वीयदिनचर्यामवलोक्य निश्चितवान् यद्, बहुषु कार्येषु मध्यमध्ये भूयान् कालो व्यर्थो भवति स्म । यथा, कॉफीपेयनिर्माणं दशनिमेषात्मकं कालमपेक्षते । तदा च विनैव केनचित् कार्येणैवमेवोपवेष्टव्यं भवेत् । एते च दश निमेषाः केनचित् लेखनकार्येणाऽन्येन वा केनचित् कार्येण सफलीभवेयुः । अतः स अस्मिन् दशनिमेषात्मके काले किञ्चनाऽनुवादकार्यं कर्तुं निश्चितवान् । यतस्तत्राऽधिकं चिन्तनं न कर्तव्यं भवेत् । केवलं पुरःस्थितं पुस्तकमेव विलोक्य लेखनं कर्तव्यं स्यात् । प्रतिदिनं केवलं दशनिमेषेषु यावल्लिख्यते तावदेव वरम् । अवशिष्टं तु द्वितीये दिने लिख्यते । वयं कल्पितुमपि न शक्नुमो यदनया रीत्या प्रतिदिनमनुवादस्यैकं पृष्ठमधु वा पृष्ठं लिखता तेन दांते(DANTE)-इत्यस्य इन्फ!(INFERNO)-इति इटालीयभाषीयपुस्तकस्याऽऽङ्ग्लभाषायामनुवादः कृतः। 55

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100