Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ कथा वेषमाहात्म्यम् - सा.निसर्गप्रज्ञाश्रीः यद्यपि स चौराणां नायक आसीत्, किन्तु तस्य वेषः साधोरासीत् । स हस्ते जपमालिकामधारयत्, किन्तु कार्यं चौरस्य कुर्वन्नासीत् । ___ एकदा तस्य नायकस्य सहचरा मार्गगतान् वणिजो धृतवन्तः । तेषामेको वणिगपसृत्य पलायितः । धावन् स तं साधुवेशस्थितं नायकमपश्यत् । ततश्च तत्समीपमागत्य स्वस्य रत्नपोट्टलिकां संरक्षणाय तस्मै दत्त्वा तिरोऽभवत् । सर्वे सहचरा वणिजां धनादिकं लुण्टित्वा तस्मिन्नेव पटमण्डपे विभजनं कर्तुं मिलितवन्तः। तदैव स वणिक् तां रत्नपोट्टलिकां लातुं तत्राऽऽगतवान् । सर्वचौराणां मध्ये तं साधं दृष्ट्वा स चिन्तितवान् - “असौ साधुर्वा चौरनायको वा?” ततः स्वरक्षणाय सोऽधावत् । नायकस्तमपश्यत् । ततश्च पुनस्तं वणिजमाहूय स तस्मै तां रत्नपोट्टलिकां दत्तवान् । ततश्च वणिग् गतवान्। सर्वे सहचरास्तमकथयन्त - “भवता किं कृतमेतत् ? हस्तागतोऽवसरश्युतोऽभवत्" । नायक उक्तवान् - “स वणिङ् मां साधुं ज्ञात्वा रत्नपोट्टलिकामर्पितवान् । वेशः कलङ्कितो न भवेदित्येतदर्थं मया रत्नपोट्टलिका प्रत्यर्पिता। अहो दिव्यमहिमा वेशस्य ! । साधोः सान्निध्यं तु जनस्य हृदयं गभीरतया प्रभावितं करोत्येव, परं कदाचित् साधुवेशोऽपि चमत्कारं जनयति। ****** 58

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100