Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ पश्यन्नपि नो पश्यति, लोकोऽयं वामलोचनारामी। न गुरुं पश्यति नाऽन्यं, पश्यति युवतीसमीपस्थः ।।२५।। पश्यति गलितोपाङ्ग, पश्यति सद्वृत्तजातिरहितं सा। इति दृष्ट्वाऽपि श्लिष्यति, यस्तां तस्मै नमो नित्यम् ॥२६॥ कपिकच्छूः कुपिताऽपि, व्याघ्री संस्पृश्यतां वरं लोके। न पुनः स्पृश्या वनिता, घ्रन्ती स्पृष्टाऽपि वरधर्मम् ।।२७।। स्पृशति नरं न्यग्जाति-मस्पृश्यं पिशुनरञ्जिनी नारी। प्रविशति कामे हृदये, मूढानां सा पदं याति ।।२८।। नारीर्मा स्पृश चेतः, परलोकं प्रमुष्णन्ति ता नार्यः । पिंषन्ति धर्मबीजं, पिष्टं यन्नाऽङ्कुरं लभते ।।२९।। नाशितगुणामलज्जा, रमणीमेकां विनष्टमर्यादाम् । चूर्णितशीलां नारी, को वा काङ्क्षति भषणशुनकीम् ।।३०।। वनिताऽकलुषितचेता, विषयैः शब्दादिभिरप्यनाकृष्टः । अञ्चितनिर्वाणश्रीः, स स्थूलभद्रो मुनिर्धन्यः ।।३१।। कामेनाऽपि न कृष्टः, कर्षत्या कर्णकृष्टबाणेन । आवर्जकगुणनिचयैर्मम चेतः स्थूलभद्रोऽसौ ॥३२।। ब्रह्म चचार सुतीक्ष्णो, वज्रर्षिनिष्कासितासिवद्धन्यः । तुल्यं यस्य गवेषण-कुशला अद्यापि न प्राप्ताः ।।३३।। तत्त्वं गवेषयित्वाऽऽत्मानं पुनरागमार्थमत्यर्थम् । वज्रर्षिरेक एव, श्लिष्टोन्नतसंयमारामः ।।३४।। ब्रह्मश्रीसंश्लिष्टं, तपः श्रियाऽर्थ्य समस्तगुणयुक्तम् । ज्ञानश्रीसुश्लिष्टं, वज्रं नित्यं नमस्यामः ।।३५।। चन्दनरसेन सुधया, किमु लिम्पन्तं सुकोमलं कान्तम् । के मोक्षं काङ्क्षन्तो, गजसुकुमालं न वाञ्छन्ति ? ।।३६।। अभिलष्यति यो धर्म, काङ्क्षति धर्मं च सौख्मव्यग्रम् । स वाञ्छतु कमनीयं, श्रीगौतमो विश्वपो मार्गम् ।।३७।। नाऽभिलषितभवसौख्यो, जननाज्जीवेषु यो दयां वाञ्छन् । अद्याऽप्यवेक्षितयशा, भवाप्रतीक्षो जयत्यभयः ।।३८॥ 65

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100