Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आर्यावर्ते सकले, कृतकार्यस्त्वं शौर्यलक्ष्मीपते!। संस्मृतजिनाभिधान !, लोकद्वयेऽपि च सफलस्त्वम् ।।९५।। पालय सकलां पृथिवीं, त्रायस्वनाकं भवतु ते भद्रम् । त्वं भव जगदुत्तंसः, यशसाऽपूर्वेण नित्यमपि ॥९६।। शौर्येणाऽपूर्वेण च, भूत्वा विष्णुरिव शेषनाग इव। भरतेश्वर इव राज्यमेकच्छत्रं भवान् कुरुतात् ।।९७।। कृत्वा पृथिवीत्राणं, गुरुतां प्राप्य च विधाय बलिबन्धम्। श्रियमासाद्याच हरिवत्, भवतु भवान् शक्रवच्चाऽपि ॥९८।। यद्यस्माभिः श्लाघा, क्रियते तव तर्हि का कथाऽन्येषाम्। विचरिष्यति तव कीर्तिर्यावत् स्वर्गं च पातालम् ।।९९।। अधुना त्वयि तुष्टाऽहं, वितरामि वरं तदेव खलु युक्तम् । किं याचे पुनरेना-मिति भावय मा वृथा राजन् ।।१००।। त्वयि तुष्टायां भगवति !, त्रिभुवनराज्यं न किञ्चिदपि मन्ये । देव्यस्तव प्रसादा-दाहूयन्तेऽपि दास्य इव तास्ताः ।।१०१॥ श्रुतदेवि ! त्वं दृष्टाऽऽश्चर्यचकितो भवादहं जातः। उपदेशय मां किञ्चन, येनाऽशान्ताः प्रशाम्यन्ति ।।१०२।।
*
*
*
*
*
*
*
*
75

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100