Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीप्राकृतद्व्याश्रयमहाकाव्यम् (संस्कृतानुवादः)
- पं. नरेन्द्रचन्द्रझा
(सप्तमः सर्गः)
सन्तापित सकलबलो, निर्जितनिखिलान्तरङ्गरिपुवर्गः। आहतकरणो राजा, चिन्तामकरोत् स निद्रान्ते ॥१॥ वशीकृताः शब्दाधैभ्रम्यिन्तः सर्वतोऽङ्गनाभोगैः। भ्रमिताः कुकर्मयोगैर्धाम्यन्ति भवे भवे लोकाः ।।२।। कामग्रहेण विमतैर्विमतिं नीतः परिभ्रमति जगति। कामभ्रमणविरहितः, सिद्धक्षेत्रेषु यच्छति स्वैरम् ।।३।। भ्रमितधनुर्धाम्यद्भु-भ्रमिताज्ञः सर्वथा जगद्भमणः।। मदनो यं न भ्रमयति, जगति स धन्योऽभ्रमितबुद्धिः ।।४।। भ्रमति पुरीवाऽरण्ये, सलिलान्तर्यः स्थलीष्वविश्रामम् । अविचलचित्तः स्त्रीऊः, धन्यः साऽऽप्नोति शमराज्यम् ।।५।। सौख्यं स एव गच्छति, प्रशमं स्वर्ग प्रयाति सामोदम्। मोक्षं चाऽप्यनुगच्छति, मुञ्चति यो ह्यङ्गनासङ्गम् ।।६।। तारुण्ये सति गलिते, सत्सु च गच्छत्सु हानिमक्षेषु । वृद्धोऽपि याति कामं, न प्रशमं याति कामार्त्तः ।।७।। गच्छन्ति मित्रभार्यां, गच्छन्ति सुतां स्नुषा च गच्छन्ति । यान्ति च गुरोः कलत्रं, मन्मथरपरतन्त्रतामाप्ताः ।।८।। गत्वा वशेऽङ्गनानां, भ्रश्यल्लजं विवेकधनरहिताः । पापा जगति चिरश्चीर्यान्ति कथा का पुनस्तेषाम् ।।९।। ये विरहितमर्यादा, मन्मखवशगाः शमं न गृह्णन्ति । आर्यक्षेत्रे नूनं, समागतास्ते मुधा लोकाः ॥१०॥

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100