Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
स्थिरता
- सा.निसर्गप्रज्ञाश्रीः
कस्मिंश्चिद् ग्रामे एकः सत्पुरुष आगतः । तदुपदेशं श्रोतुं सर्वे ग्रामवासिनः समागताः । ते सर्वे ग्रामजनास्तद्वाणीजलेन पापानि क्षालयितुमिच्छन्ति स्म । कस्यचित् श्रेष्ठिनः प्रधानकर्मचार्यपि सत्पुरुषवाणीप्रभावं ज्ञात्वा सत्संग आगच्छत् । यदा स कर्मचारी समागतस्तदा सत्पुरुष ईश्वरध्यानं वर्णयति स्म । तद्वर्णनं प्रधानकर्मचारिणेऽरोचत । तत्पश्चात् सोऽपि ध्यानं कर्तुं लग्नः, किन्तु मनो न स्थिरीभूतम्।
ततः स सत्पुरुषमकथयत् - "यदि भवतः कृपा स्यात् तर्हि ममाऽप्युत्तमं ध्यानं स्यात्” । सत्पुरुषोऽपृच्छत् - "भोः ! कर्मचारिन् ! तव मनसि किमपि पापं भवेत् तत एव ध्यानं सम्यक् न भवेत्” । तदा स क्षणं यावद्विचिन्त्य पश्चादकथयत् - "आम् ! मया श्रेष्ठिनः द्वे सहस्रे रूंप्यकाण्यचोर्यन्त” । सत्पुरुषोऽकथयत् - तस्मादेव तव मन एकाग्रं न भवति” । सोऽकथयत् - "अद्यैव तस्मै प्रत्यर्ययिष्यामि"।
___पुनर्द्वितीयस्मिन् दिने सत्पुरुषसमीपमागत्य स उक्तवान् - "प्रभो ! मनागेव मे मन एकाग्रीभूतं न पूर्णतया" । सत्पुरुषः कथितवान् - "भवान् श्रेष्ठिनः क्षमां याचितवान् न वा ?" सोऽकथयत् - “यद्यहं क्षमा याचे तदा स मम विषये किं चिन्तयेत् ? तस्य चाऽग्रे मम प्रतिष्ठाऽपि कीदृशी स्यात् ?"
सत्पुरुषोऽकथयत् - "भोः कर्मचारिन् ! लोके प्रतिष्ठां रक्षितुं स्वमनसि किमर्थं पापं सगृहणीयाः ? पापनिवारणात् स्वमानं मनागपि नाऽल्पीभवेत् किन्तु वर्धेत । अहमपि त्वया सार्धमागच्छामि, चल" । ततस्तौ द्वावपि श्रेष्ठिनः समीपमागगच्छताम् । कर्मचारी श्रेष्ठिनः स्वकृतस्याऽसत्कार्यस्य कृते क्षमा याचितवान् । हृष्टः श्रेष्ठ्यपि तं स्वदायादमकरोत् ।
*****
57

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100