Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ कथा दृष्टिः __ - सा.तत्त्वनन्दिताश्रीः एकदा कस्यचन तडागस्य तीरे सिंहो जलं पातुं समागतः । तस्मिंश्च जलं पिबति व्याघ्रोऽपि कश्चन तत्र जलं पातुमागतः । जलं च पिबन्तौ तौ मिथः संलापं कुरुतः स्म । व्याघ्रः प्राह – “इदानीमत्यन्तं शीतकालोऽस्ति । माघमासोऽस्ति वर्तमानः, सन्ध्याकालश्च सन्निहितः, दिनकरस्त्विदमिदानीमेवाऽस्तमयं प्रस्थितोऽस्ति” । वनराजोऽकथयत् - "भोः! शीतं तु पौषमास्येवाऽधिकं भवति न पुनर्माघमासे । अतः नेदानीमत्यन्तं शीतकालोऽस्ति” । तच्छ्रुत्वा व्याघ्रोऽवदत् - “किं वदति भवान् ? शीतं तु माघमास्येवाऽधिकं भवति न पुनः फाल्गुनमासे”। एतावता पुरस्तात् कश्चन शृगाल आगच्छन् दृष्टः । तं दृष्ट्वा सिंहोऽवदत् - "चलतु भोः! अयं खलु चतुरः शृगालः समागतोऽतस्तमेव विषयमेतं पृच्छावः । स एवाऽऽवयोः समाधानं दास्यति”। व्याघेणोक्तं - शृगालः ? कुत्राऽस्ति शृगालः ? सिंहोऽवदत् - एष वृतिमुल्लङ्घ्य समागच्छति भोः! । इदानीं पश्य, मार्गे तत्र लुकलुकायमानः आगच्छन्नस्ति । आम् सत्यम् । चलतु भवान्, तमेव पृच्छामः । शृगालस्तूभावपि दृष्टवानासीत् पूर्वमेव । तथाऽपि मनसि भयभीतोऽपि स स्वस्थता नाटयन् तयोरुभयोः समीपमागतः। तं दृष्ट्वैव व्याघ्रोऽवदत् - "भोः ! आवयोर्मध्ये एका समस्योत्थिताऽस्ति । कृपया भवांस्तस्याः समाधानं करोतु"। शृगालोऽवदत् - "वदतां भवतोः समस्यां कृपया, अहं तत्समाधानं कर्तुं प्रयतिष्ये” । तदा सिंहोऽवदत् - "तर्हि कथयतु यत् शीतं माघमासेऽधिकं भवत्युत पौषमासे ?" शृगालश्चिन्तितवान् - "यद्येकोऽप्यनयोः कुपितो भविष्यति तदा मम त्वत्रैव वर्षशतं पूर्ण भविष्यति । अतः कमप्युपायं चिन्तयामि” । ततः क्षणं विचिन्त्य तेनोक्तं - “भवन्तौ द्वावपि मम ज्येष्ठौ पूज्यौ च स्तः । अतः भवतोऽपि न्यायं कुर्वाणोऽहं को वा न्यायाधीशः ? तथाऽपि भवतोराज्ञामुल्लयितुं सर्वथाऽशक्तोऽहम् । अत उत्तरं ददामि यद् - यदि माघमासे शीतो वायुरधिकतया वहेत् तदा माघमासे शीतमधिकं भवेत्, यदि च पौषे शीतो मारुतोऽधिको वायात् तदा पौषमासेऽधिकं शीतं भवेत् । यतः शीतस्य तु शीतपवनेन सह सम्बन्धोऽस्ति न पुनर्माघमासेन पौषमासेन वा” । इति ।। 54

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100