Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ वास्तव्यानां मुमुक्षूणां विभिन्ना दिनचर्या शिक्षा चाऽवलोकनीया। यदा भवतो मनोभावोऽनुकूलो भवेत् तदा यद् विधेयं तद् दर्शयिष्यामि । यद्यपीहत्यानां दिनचर्या स्वरूपतः कठोरा स्यात्, दुस्सहा चाऽपि भवेत्, किन्त्वभ्यासेन सरला सुसेव्या च भविष्यति, तदर्थं चाऽयं देवाभिधो मुनिकुमारको भवतः साहाय्यं करिष्यति”। सिंहसेनेनोक्तं - "तत्रभवतां भवतां कृपयाऽहं समर्थो भविष्यामि इति मन्ये”। ततो विश्रामकुटिरं गत्वा शुभध्यानेन रात्रिं निर्गम्य प्रातःकाले स्नानादिशौचं विधाय देवार्चनं कृत्वा कुलपतिं च नमस्कृत्य सहायक-मुनिकुमारेण सहाऽऽश्रमे सम्भवतः शिक्षाकक्षानवलोकयितुं प्रवृत्तः । देवाभिधो मुनिकुमारकोऽपि विभिन्नशिक्षायाः परिचयं कारयति स्म । एवं दिनत्रयं यावत् तत्राऽऽश्रमे विधीयमानां चर्यां शिक्षाविधिं चाऽवलोक्य चिन्तयति स्म - “एवंविधा दिनचर्या मह्यं रोचते। शिक्षाविधिं विधातुं चाऽहं समर्थो भविष्यामि" - इति विचिन्त्य सहायकं मुनिकुमारकं स्वाभिप्रायं निवेद्य कुलपतिं चोपगम्य सिंहसेनो भणति स्म - "हे भगवन् ! भवतां निर्देशानुसारेण इह आश्रमे स्थित्वा शिक्षा ग्रहीतुमिच्छामि" । शुभवेलायां च शिक्षां ग्राहयितुकामेन कुलपतिनोक्तं - “इहाऽऽश्रमेऽनेकविधा विद्याः शिक्षाश्च क्रमेणोपलभ्यन्ते, अतोऽद्य दिनात् षोडशे दिवसे वसन्तपञ्चमीतिथौ भवतः शिक्षारम्भो भविष्यति । अतो भवता स्वनगरं गत्वा पितृभ्यां परिजनाय च सविनयं दिव्यसाम्राज्य-ग्रहणेच्छा निवेद्या, तेषामार्शीवचनमप्यभिलषणीयं कथनीयं च - "भवतां मध्ये यस्य कस्याऽपि तत्र गमनेच्छा स्यात् तेनापि मम सार्धमागन्तव्यम्” इत्यादि। सिंहसेनोऽपि स्वनगरं गन्तुमभिलषति स्म । तदा कुलपतिना दिव्याञ्जन-प्रयोगेण तत्क्षणं स स्वनगरपरिसरे अमुच्यत । सिंहसेनोऽपि यावत् चक्षुरुन्मील्य पश्यति स्म तदा कुलपतिर्न दृष्टो न चाऽऽश्रमः, किन्तु स्वनगर-परिसरस्योद्यानं दृष्टम् । स्वप्नवत् किन्तु स्वानुभूतिकं परिवर्तनमवधार्य स राजमन्दिरं गत्वा पित्रोश्चरणयोः प्रणमति स्म। इतस्तु समित्रसिंहसेनस्य विदेशयात्रागमनानन्तरं कोऽपि विशेषसमाचारस्याऽनवगमात् पित्रोरेतादृशी चिन्ता पुनः पुनरभवद् यद् - “राजकुमारः क्व भविष्यति ? कदा च पुनरागमिष्यति ? " । किन्त्वद्याऽऽकस्मिकं पुत्राऽऽगमनं प्रेक्ष्य हर्षाश्रुपूर्णनेत्रान्वितौ पितरौ प्रसन्नीभूय मस्तकोपरि करं संस्थाप्य शुभाशिषं दत्तवन्तौ । तत आसनोपर्युपवेश्य क्षणं वार्तालापं विधाय सिंहसेनाय कथितं ताभ्यां यद् - “विश्रम्य स्नानं च विधाय देवपूजां क्रियताम् । पश्चाद् वयं सहैव भोजनं करिष्यामस्तत्पश्चाच्च परस्परं विशेषवार्ता विधास्यामः । सिंहसेनोऽपि यथासमयं विधेयं विहितवान्, सायङ्काले च सर्वकार्यनिवृत्त्यनन्तरं परस्परं सुखदुःखवार्ता प्रारब्धा तैः । तद्यथा - 30

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100