Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ कथा भिक्षुः अखण्डानन्दः ___ - मुनि-राजयशविजयः बोरसदग्रामे लल्लुभाई-लुहाणानामा एको युवा वसति स्म । आ बाल्यकालाद् एव पुस्तकपठनेऽतीव प्रीतिस्तस्य । आध्यात्मिकसंस्कारोपेतपुस्तकपठनप्रेम्णा तन्मनो वैराग्यवासितमभवत्। द्वादशवर्षवयसि तस्य पिता निधनं गतः । ततस्तस्य वैराग्यमितोऽपि दृढीभूतम् । मनश्च संसाराद् विमुखीभूतम्। एकस्मिन् दिने गृह-परिवारस्वजनान् परित्यज्य साभ्रमतीनदी तीरे स 'भिक्षुः अखण्डानन्दः' - इति नाम्ना संन्यासं गृहीत्वा भिक्षुशिवानन्दस्य शिष्यत्वमङ्गीकृतमनेन । पश्चात् हिमालये गङ्गोत्रीं गत्वा विद्याभ्यासे प्रवृत्तः। एकदा मुम्बईनगरी समागतः सः । तत्रैकस्मात् पुस्तकविक्रेतुः सकाशाद् भजनसङ्ग्रहः - इत्याख्यं पुस्तकं केतुं गतः स, किन्तु तन्मूल्यं ज्ञात्वा व्याकुलो जातः । विचारितञ्च तेन यज्जनाः पुस्तकं न पठन्तीत्यत्राधिकमूल्यमेव कारणम् । “ननु सत्साहित्यमल्पमूल्येन प्रकाशितुं न शक्यते किम्?" भिक्षोः मनसि सुरम्यविचाराङ्कुरः पुस्फोट। कदाचित् प्राणिनां स्वविचारस्य संयोजनायाऽवसरोऽपि सपद्येव प्राप्यते । तथैव तदैव भिक्षुरखण्डानन्दः पूर्वपरिचितस्यैकस्य सज्जनस्य पत्रमवाप्नोत् । लिखितञ्च तत्र - “कस्यचित् स्वजनस्याऽऽत्मश्रेयसे त्रिंशद्रूप्यकाणि व्ययनीयानि, तदर्थं च भागवतग्रन्थस्यैकादशमध्यायं मुद्रयित्वा तद्वितरणेच्छा वर्तते” । . यच्चिन्तितं तदेव समागतमिति भिक्षुवर्यः प्रमुदितः । मुम्बई-नगर्यामेवैकस्मिन् गृहाङ्गणे काष्ठपेटिकां स्थापयित्वोपविष्टः सः । तत्र स्वपरिश्रमेणैव प्रतिलिपि-शोध्यपत्रादिकं स्वयं कर्तुं लग्नः । तदानीं सम्पूर्णमुद्रणप्रक्रियाऽतिनिकटतया तेन दृष्टा । मुद्रणस्य मूल्यं, कर्गदमूल्यं, पुस्तकबन्धनकार्य, प्रेषणव्ययः - इत्यादिनैकवस्तूनां सूक्ष्मतया परिचयः कृतस्तेन । प्रौढीभूत-श्च सोऽस्मिन् विषये ।पश्चात्तु पुस्तकमल्पमूल्यं कथं भवेदेति प्रयत्नं कृत्वैकानन्तरमेकमिति बहूनि पुस्तकानि प्रकाशितानि। एवंप्रकारेण तेन 'सस्तु-साहित्यवर्धक कार्यालय' - इत्यभिधा पुस्तकप्रकाशनसंस्था 49

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100