Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
भक्तिभावः श्रेष्ठः
- सा.ध्यानरसाश्रीः
अथाऽन्यदा भगवान् श्रीकृष्णः केनचित् कार्येण हस्तिनापुरमागत आसीत् । कार्यसमाप्त्यनन्तरं स बुभुक्षितः सन् विदुरस्य गृहं गतः । तदा विदुरपत्नी पारसंवी गृहे एकाकिन्येवाऽऽसीत् । श्रीकृष्णं गृहमागतं वीक्ष्य साऽत्यन्तं हृष्टा सती धावन्ती बहिरागता श्रीकृष्णं च सत्कृत्य गृहान्तींतवती । भक्तितत्परां तां वीक्ष्य श्रीकृष्णेनोक्त - “भोः! पारसंवि ! अहं भृशं बुभुक्षितोऽस्मि, अतश्च तव गेहे भोजनार्थमागतोऽस्मि” ।
__ पारसंवी दुःखिता सती कथितवती - "प्रभो ! अद्यैकादश्यस्ति, अतोऽद्य मे गृहे न किमपि पक्वमन्नमस्ति । वयं तु केवलं फलाहारं करिष्यामः । परन्तु भवान् काञ्चिद् वेलामुपविशतु, अहं सद्य एव किञ्चन पचामि"।
श्रीकृष्णः स्मेरमुखः सन् कथितवान् - "अरे ! नास्ति तावत् पक्वान्नस्याऽऽवश्यकता मम, अहमपि फलान्येव खादिष्यामि । आनयतु तावत्।
एतन्निशम्य मुदिता पारसंवी झटिति कदलीफलान्यानीतवती । ततो भगवतः सम्मुखमुपविश्य भक्तिरसनिमग्ना सा सर्वमपि विस्मृत्य कदलीफलानां त्वचमपनीय फलगर्भमधः क्षिपती त्वचमेव भगवते खादितुं दत्तवती । श्रीकृष्णोऽपि तस्या भक्त्या प्रमुदितः सन् किञ्चिदप्यविचार्य कदलीत्वचमेव सास्वादं खादितवान्।
एतावता विदुरः समागतः, पारसंव्या दीयमानां कदलीफलत्वचं खादन्तं च श्रीकृष्णं विलोक्य कुपितः सन् पारसंवीमुपालब्धवान् - "रे मूढे ! किमेतत् करोति भवती? कदलीगर्भमधः क्षिप्त्वा त्वचमेव खादितुं ददाति भगवते !" । विदुरवचः श्रुत्वा सा भावलोकाद् बहिरागता सती दृष्टवती यत्तया कदलीत्वगेव श्रीकृष्णाय खादितुमर्पिताऽऽसीत् । सा लज्जिता सत्येकं शब्दमपि वक्तुमक्षमा जाता।
तदा विदुरेणोक्तं - "प्रभो ! मम पत्नी त्विहलोकं विस्मृत्य भक्तिलीना सती भवते कदलीत्वचं दत्तवती, परं भवता तु सा निषेद्धव्याऽऽसीन्ननु !”।
श्रीकृष्णेन सस्मितमुक्तं - “भो विदुर ! यथा पारसंवी मद्भक्तिलीना सती सर्वमपि विस्मृतवती तथैवाऽहमपि तस्या भक्तिभावं दृष्ट्वा सर्वमपि विस्मृत्य तया दीयमानां
51

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100