Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ स्थापिता। कालानन्तरं काष्टपेटिकास्थाने पटलासन्दिके समागते। ततः परं कार्यालयं मुम्बईतः अहमदावादमध्ये समानीतम् । तत्रापि प्रकाशनकार्यं तु वर्धमानमेवाऽऽसीत्। अथ संस्थायाः स्वामित्वाधिकारः समितिं विरचय्य प्रदत्तस्तस्यै तथापि सञ्चालनं तु अखण्डानन्दस्वामिहस्तेनैव प्रवर्तमानमासीत्। एकदा तन्मनसि विचारः समागतो यद् - "मम विलयानन्तरं कार्यमिदं रुद्धं भविष्यति।" अतः संस्थायाः सर्वोऽपि प्रकाशितः सङ्ग्रहोऽर्धमूल्येनैव विक्रयणार्थ- मुद्घोषितः । “सस्तुसाहित्कार्यलयोऽथ विसर्जनं प्राप्नोति” - इति श्रुत्वा पठनानुरागिणो जनाः पुस्तकक्रयणार्थं सत्वरं समागताः पुस्तकानि च स्वल्पकालेनैव विक्रीतानि । तद्विक्रयणेन सुमहद्धनं सम्प्राप्तम् । तेन च समृद्धाऽभवत् संस्था। ततश्च कार्यालयविसर्जनविचारं त्यक्त्वा तस्य पञ्जीकरणं कृतम्।। भिक्षु-अखण्डानन्दस्तु वैक्रमे १९४२तमे वर्षे दिवङ्गतः। परं सपादवर्षशतानन्तरमपि सस्तु-साहित्यवर्धककार्यालयतः पुस्तकानि प्रकाश्यन्ते । इदानीन्तु अखण्ड-आनन्दः इति नाम्ना सामयिकस्य प्रकाशनमपि प्रचलति भिक्षुवर्यस्य स्मृतौ। सुसंस्कारोपेतमल्पमूल्यं साहित्यं जनसामान्यस्य कृते प्रकाशनीयमित्येषाऽस्ति महती सेवा समाजस्य । नूनं भिक्षु-अखण्डानन्दवर्योऽस्मदादर्शतया भावयितव्यः। ****** 50

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100