Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तस्य सैनिकस्य स्मृतिपथि तद्दिनमवतीर्णं यदा सैन्यप्रशिक्षणाय सर्व सैनिका अनेनैव मार्गेण गच्छन्ति स्म । सर्वे चाऽतिक्षुधातुरा आसन् । तदा पान्थशालेयं दृष्टा तैः, पान्थशालायाञ्च भोजनमपि कृतं सन्तोषप्रदम् । वनप्रदेशेऽत्र तस्मिन् दिने दुष्प्रापं भोजनं कथं प्राप्तं तैः? कदाचिद् वृद्धस्येवेश्वरस्तेषां सहायकोऽप्यभवत्तस्मिन्नह्नीति चिन्त्यते स्म तेन ।
(३) सहिष्णुता मानवजीवनमिदं महामूल्यं परमपदप्राप्त्यर्थं प्राप्तमस्माभिः । अतो जीवनमिदं वैशिष्ट्यपूर्ण पारलौकिकसाधनार्थं व्यतीतव्यं नूनम् । यद्यपि श्रामण्यं गृहीत्वैव साधनेयं श्रेष्ठतयैव क्रियेताऽस्माभिः । परन्तु गार्हस्थ्येऽपि विविधसद्गुणप्राप्तिरूपेण साधनेयं क्रियते नूनम् । साधनापथे सर्वप्रथमा वर्तते सहिष्णुतासाधना । गृहस्थजीवनेऽपि साधनेयं कीदृशी महती वर्तते तद्दर्शकोऽयं प्रसङ्गोऽद्भुतः -
ईश्वरचन्द्रविद्यासागरवर्यस्य शैशवं तत् । 'भगवतीदेवी' इत्याख्या तस्य माताऽऽसीदतिकरुणाशीला। दुःखिनां सेवैव तज्जीवनम् । अन्येषां लघु वा बृहद् वा दुःखमपि विलोक्य तदपाकर्तुमवश्यं प्रयतते स्म सा । अत एव निःशेषग्राममध्ये ‘परमकरुणामयी' इति विश्रुताऽऽसीद् भगवतीदेवी।
किन्तु कैश्चिद्दग्धजनैर्भगवतीदेव्याः प्रसरती कीर्तिरियं न सोढा । इतस्ते यशो-रोधनेऽक्षमा अप्यासन् । अतस्तैर्भगवतीदेव्या गृहद्वारि नित्यं निशायामवस्करं क्षिप्यते स्म । तस्या गृहाङ्गणं नित्यं तैर्दुष्टैर्दूषितं भवति स्म । तथाऽपि भगवतीदेव्याः स्व-दुःखनिवेदनं कदापि न कृतम् । सा प्रत्यहं सस्मितं गृहप्राङ्गणं समीचीनं करोति स्म।
परमनेन तु दुष्टानां साहसमवर्धत । अथ तु मृतमूषकादयोऽपि भगवतीदेव्या गृहद्वारि क्षिप्यन्ते स्म तैः । अतो बाल ईश्वरचन्द्रोऽतिक्रुद्धतयोक्तवान् - “अम्ब ! किंपर्यन्तमेषां दुष्टानां क्लेशाः सहनीयाः? अथ तूत्तरं नूनं देयम् ।”
"वत्स ! सहिष्णुता किंपर्यन्तं रक्षणीयेति प्रश्नो न” – भगवतीदेव्या अद्भुतमुत्तरं प्रदत्तं - “यतो विरोधिनामन्तःकरणेऽस्मान् प्रति द्वेषो वर्तते । यावत् स द्वेषः स्नेहरूपो न भवेत्तावद् धैर्य रक्षितव्यम् । सहिष्णुतामाध्यमेनैव फलं शोभनं प्राप्स्यते।"
___ तत्त्वत एवमेवाऽभवत् । विरोधिनामन्तःकरणं नितरां परिवर्तनं प्राप्तम् । द्वेषं परित्यज्य नितान्तं स्नेहिन आदरवन्तोऽपि सातास्ते।
अत्राऽवधेयम्, यो सहनं करोति स एव महत्तां प्राप्नोति ।
*****

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100