Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ मृत्युस्मरणेन 'अल्फ्रेडनोबल'सदृशो विदेशीयो जनोऽपि सज्जनः सञ्जातः । किम्? अस्माभिः कदाऽपि चिन्तितं मरणं येनाऽस्मज्जीवनमपि भवेच्छुभं सर्वोत्तमञ्च ? (२) ईश्वरः परमात्मनः परमकृपाशीलस्य कृपावृष्टिर्भवति सर्वत्र सर्वजनेषु च, एतस्मिन् प्रश्नः कोऽपि न। अपि तु प्रश्नोऽयं यदस्माकं पार्श्वे ग्रहीतुं तां श्रद्धाभाजनं विद्यते न वा? यदि श्रद्धाशीला भविष्यामो वयं परमेश्वरं प्रति तर्हि विकटदशायामपि सत्पथः सुविधं प्राप्यतेऽस्माभिः। । केभ्यश्चिद् वर्षेभ्यः प्राग् भारतीयसैनिकाः केचित् पर्वतीयदुर्गमस्थाने कस्मिंश्चित् सैन्यप्रशिक्षणार्थं गच्छन्ति स्म । कठिनमार्गमध्ये क्षुधार्ताः सञ्जातास्ते । तत्पश्चात् स्तोकसमयान्तरे तैः क्षुधापीडितैर्मार्गस्था काचित् पान्थशाला दृष्टा । यद्यपि पान्थशालायां खाद्यपदार्था विद्यन्ते स्म, किन्तु पान्थशालास्वामी न विद्यते स्म तत्र । अतः सैन्यप्रशिक्षकाज्ञया सैनिकैः स्वयमेव खाद्यपदार्था भुक्ताः सन्तोषश्चाऽनुभूतः । पान्थशालायां १००० रूप्यकाणि मुक्त्वा प्रशिक्षकः ससैनिको निर्गतः। ___कानिचिद् दिनानि व्यतीतानि । सैन्यप्रशिक्षणं समाप्य सर्वे सैनिकाः पुनस्तां पान्थशालां प्राप्ताः । पान्थशालास्वामी तदा तत्रैवाऽऽसीत् । सर्वैः सैनिकैस्तत्र विश्रामः कृतः, भोजनं चाऽपि कृतम् । तत्राऽन्तरे स वृद्धपान्थशालास्वामी मुहर्मुहुर्वदति स्म – 'हे ईश्वर ! परमकरुणासिन्धो ! तव कृपयेव भवति सर्वं साधु । किञ्चिदपि शुभं भवेत् तत् सर्वं भवेत् तव कारुण्येनैवेति ।' सर्वैः सैनिकैरपि श्रुतमिदं नैकशः । ते सर्व आसन्नितरां नास्तिकमतानुगाः । अतो पान्थशालाया निर्गमनवेलायां सत्यामन्यतमः सैनिक उक्तवान् वृद्धं प्रति – “मान्य ! ईश्वरेणैव सर्वं साधु क्रियत इति तव भ्रम एव । तत्त्वत ईश्वरेण न, अपि त्वस्मत्पुरुषार्थेनैव सर्वं भवति समीचीनम् । ईश्वरस्तु न विद्यतेऽस्मिन् जगति ।" वृद्धोऽवदत् - "सज्जन ! प्रथमं मम वार्तां शृणु । तदनु त्वमेव कथयिष्यसि यद् ईश्वरो नूनं विद्यते विश्वेऽस्मिन् । त्रिभ्यो मासेभ्यः प्राग् मम पुत्रो महाव्याधिग्रस्तः सञ्जातः । तस्य चिकित्सार्थं रूप्यकाण्यपि नाऽऽसन् मम पार्श्वे । तदा चिन्तातुरोऽहं पान्थशालामागतः । अहं नितरां मूढ आसम् । तदा मया दृष्टं यन्मम काष्ठफलकस्योपरि १००० रूप्यकाणि सन्तीति । अहमतिहृष्टोऽभवम् । रूप्यकैस्तैर्मया पुत्रस्य चिकित्सा कृता । मम पुत्रोऽधुना समीचीनस्वास्थ्योऽस्ति । मित्र ! अहं नूनं मन्ये यत्तस्मिन् दिन ईश्वर एव मम सहायकोऽभवत् । अन्यथा महाशय ! त्वमेव चिन्तय, अस्मिन् वनसदृशनिर्जनप्रदेशे तस्मिन्नेव दिने कः सहायको भवे-न्मम? अत एव कथयामि नित्यमीश्वरं प्रति यत्तव परमकृपयैव भवति साधु सर्वमिति ।"

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100