Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एतादृशं शुभं स्थानमपारसुखसम्भृतम् । क्षणेन दिव्यसाम्राज्यं, सिंहसेन उपागमत् ।।२२५।। पुराऽप्यत्र सुसाम्राज्ये, आयाताः सन्ति सज्जनाः । स्नेहान्विता गुणैः पूर्णाः, परेषामृद्धिकाङ्क्षिणः ।।२२६।। इहत्याः सर्वभूपालास्त्यक्तवैरानुबन्धकाः। सन्तुष्टाः परसमृद्धौ, परोन्नतिसमुत्सुकाः ।।२२७।। एतेषां पदवी ज्ञेया, निश्चला निरुपद्रवा। प्रारम्भो विद्यते किन्तु, विरामो न कदाचन ।।२२८।। सिंहसेनोऽपि तत्रैव, स्वसामर्थ्य विशेषतः। संजातः स महाभूपः स्वस्य साम्राज्यभूमिषु ।।२२९।। कथेयं कल्पिताऽस्माभिर्मोक्षपुमर्थहेतवे। उपनयोऽपि विज्ञेयः, कथ्यमानो यथातथम् ।।२३०।।
★★★
दिव्यसाम्राज्यम् सिंहसेनः फेरुसेनः कुलदेवता कुलपतिः मुनिकुमाराः मुनिकुमारकाणां परिचर्या काननम् उपद्रवाः शस्त्रास्त्रविद्याः
मोक्षपदम् मोक्षाभिलाषिजीवः कुसंगतिः सद्बुद्धिः दीक्षाप्रदातृगुरुः अन्ये गुरुबान्धवाः यतिदिनचर्या संसारः मोक्षपथि विघ्नभूताः क्रोधादि-शत्रवः क्रोधादीनां प्रतीकाराय समतादयः मोहनीयं कर्म अष्टप्रवचनमातरः क्षपकश्रेणी
राक्षसः
अष्टमहाविद्या सर्वास्त्रमहाज्वालाविद्या
★★★
45

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100