Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ च रथारूढोऽभवत् । आश्रमवासिमुनिकुमारकैः सह कुलपतिरपि मङ्गलपाठं बभाण । सर्वैरपि जय-जयारवध्वनिरुद्घोषितः । इत्येवंप्रकारेषु शुभशकुनेषु प्रवर्तमानेषु सिंहसेनेन प्रयाणं विहितम्। शौर्यरसः बभ्राजे सिंहसेनोऽथ, शस्त्रविद्यासमन्वितः। मन्ये विपक्षसङ्ग्रामे, पराक्रमो हि मूर्तिमान् ॥१४३।।[ उत्प्रेक्षालङ्कारः] अक्रूरः शौर्यसद्भावे, चञ्चलो न गतिक्रमे। तेजस्वी न च सन्तापी, चतुरोऽपि न लम्पटः ।।१४४॥[ विरोधालङ्कारः] निर्भीकोऽपि क्षमाशीलो, गम्भीरो न च गुह्यभाक् । आर्जवत्वेऽपि न मूढोऽयमीदृक् सिंहः प्रयाति सः ।।१४५॥[ विरोधालङ्कारः] गच्छन् क्रमेण सम्प्राप्तो, घनाटवीं सुदुर्गमाम्। दुर्गमां वन्यजन्तूनां, मानवानां तु का कथा ? ॥१४६।। तत्राऽस्ति वन्यवृक्षाणां, पर्णानां च प्रगाढता। जायते यामिनी-भ्रान्ति-मध्याह्नेऽपि यया सदा ॥१४७।। तथाऽपि धैर्यभान सिंहो, याति योधो युधि यथा। शृणोति तत्र ब्रह्माण्डं, स्फोटयत् सिंहगर्जनम् ।।१४८।। [अनुप्रासः पूर्णोपमालङ्कारश्च ] यावत् समीक्षते तावत्, पुरो मार्गे मृगाधिपः। करालः सपरिच्छदः, सम्प्राप्त उच्छलन् क्रुधा ।।१४९।। चिन्तयन्निति रोषेण, कोपाऽऽविष्टो हरिभृशम् । रौद्रत्वं धारयन् चित्त, आक्रामति सिंहं प्रति ।।१५०।। वने समस्ति स्वामित्वं, कोऽपि नोल्लङ्घते वचः। किन्तु कृतान्तसादृश्ये, मत्समीपे समेति कः? ।।१५१॥[ युग्मम् ] स्मृतं तु सिंहसेनेन, ह्याग्नेयास्त्रं स्वरक्षकम् । तत्क्षणं हि ज्वलज्जवाला, रथं परित आवृता ।।१५२।। विलोक्याग्निं महाज्वालं, भीतः क्षुब्धश्च केसरी। तथाऽपि सिंहघाताय, ह्याक्रामति पुनः पुनः ।।१५३।। चतुरः सिंहसेनोऽपि, स्पृशति कार्मुकं तदा। 36

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100