Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स च एवम् -
अथ सुखशय्यायां निद्राणः सिंहो निशीथकाले यद जागरितस्तदा देहचिन्तां निवार्य पवित्रीभूय च देवतासमक्षमुपविवेश, नीरवशान्ते पवित्रे देवालये दिव्यं देवताबिम्बं पश्यन् परमस्वस्थतामनुभवन् स्वकीयमतीतं चिन्तयितुं लग्नः । स्वकीयं नगरं जननी-जनकौ परिजनं च संस्मरन्नाऽयतिं च विभावयन् यावदास्ते, तावद् देवीप्रतिमातः दिव्यतेजःपुओ निर्गतः । वातावरणं च सुगन्धमयं जातम् । मधुरो घण्टारवः श्रुतिपथ- मागात् । नेत्रे उन्मील्य यावत् पश्यति तावत् कुण्डलमुकुटधारिणी दिव्यालङ्कारालङ्कृता साक्षाद् देवता दृष्टिपथमागता। साश्चर्यं नम्रीभूय सिंहोऽवदत् - “हे मातः ! का भवती ? केन हेतुना चेह समागता ?"
देवता उवाच - "हे भद्र सिंहसेन ! अहं युष्मत्कुलदेवता। युष्मत्कुल-संरक्षणं पुरस्करणं च मया विधातव्यम् - इति विचिन्त्येहाऽऽगमनमभवत् । भवता येन हेतुना देशाटनं प्रारब्धं तस्य हेतोः सफलतायै भवता मयोच्यमाना शिक्षाऽनुसर्तव्या।
__योऽयं फेरुसेनः, स दुष्कर्माभिभूतत्वात् त्वां पदे पदे सङ्कट-विधायी भविष्यति । अतस्तस्य संसर्ग मोचनीयः । तथा प्रातर्ब्राह्ममुहूर्ते भवतेत उत्तरदिशि प्रयातव्यम् । तत्र च एको योगी भवते मीलिष्यति”।
देवीवचनं श्रुत्वा सिंहसेन उवाच - "हे मातः! मित्रं मुक्त्वा कथं व्रजामि ? तथा चाऽन्यत्र गतवन्तमेकाकिनं मां को वा रक्षिष्यति ? यस्मान्नीतिसूत्रे उक्तम् -
एकाकिना बहिर्देशे न गन्तव्यम् कदाचन" ।
देवतोवाच - "हे वत्स ! अद्यप्रभृति यावज्जीवमहं तव सान्निध्यं करिष्ये यदा कदापि सङ्कटः स्यात्, तदा भवताऽहं स्मरणीया । अयं हि फेरुकोऽद्य श्वो वा त्वां सङ्कटे पातयित्वेकाकिनं मुक्त्वा च व्रजिष्यत्येव । अतोऽद्यैव तस्य त्यागो वरम् । अद्यपर्यन्त-मनुभवेन भवता ज्ञातं स्याद् यदयं फेरुको व्यसनी मायावी चाऽस्ति ।
अन्यच्च - रात्रौ विसर्पन् नागो यथाऽवलम्बनीया रज्जुः प्रतीयते, किन्तु प्रातःकाले प्रकाशे ज्ञायते, यदियं न खलु रज्जुः, अपि तु नागस्तदा ततः को नाऽपसर्पेत् ? अयं च फेरुको विषधर इव, अतो न विश्वसनीयः सर्वथा" । इत्येवं सङ्केतं विधाय सा देवता तिरोदधौ ।
ततः सिंहसेनश्चिन्तयितुं लग्नः - "किं कुर्वे ? मित्रं त्यजामि वा न वा ? यतो यं सह नीत्वा निर्गतस्तमर्धमार्गे कथं मुञ्चामि ? इतस्तु देवतायाः सङ्केतोऽप्यनतिक्रमणीयः । अतो देवतासङ्केतानुसारेण सुप्तमेव मित्रं त्यक्त्वा मया गन्तव्यं वरम्” - इति निर्णीय देवतां प्रणम्य ततो देवालयान्निरगच्छत् ।
क्रमश उदीच्यां गच्छन् कियच्चिद्-दिनान्तरे पर्वतोपत्यकायां वननिकुञ्ज सरित्तटे

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100