Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भूतकेशावलीवैव, वृक्ष-श्रेणिर्विकाशिता ॥११२॥[ उत्प्रेक्षालङ्कारः] पृथिव्या वृक्षव्याजेन, लक्षकराः समुच्छ्रिताः। विशालाकाशवृक्षस्य, मन्ये पुष्पफलेच्छया ।।११३।।[ उत्प्रेक्षालङ्कारः] विकीर्णा रूक्षका दीर्घाऽऽपादान्ता चाऽलकावली। कूष्माण्डकस्तनी तत्र, निष्ठुरा श्यामवर्णिका ॥११४।। हा हा ही ही तथा हू हू, खं खमित्यादि रौरवम् । रक्तपिपासिका क्रूरा, शब्दं करोति डाकिनी ॥११५।।[ युग्मम् ] गलितकुपणैर्व्याप्ते, शोणित-मांससंभृते। नेकपूतिपदाथैश्च, दुर्गन्धप्रचुरेऽवटे ॥११६।। पुनः कर्दमके तत्र, पातालं यावदाश्रिते। कीटाकुले निमज्जन्ति, भ्रमन्तोऽनेकप्राणिनः ।।११७।। [ युग्मम् ] वज्रतुण्डोग्रदशना, लक्षसङ्ख्याः पिपीलिकाः । चालनीवद् दृढं भूमेश्छेदनाय समुद्यताः ।।११८।। आवनं व्याप्तमश्वेतं, विचित्रं प्राणरुन्धकम् । क्वचित् स्थानेऽस्ति दावाग्निः, कुर्वन् ग्रीष्मेऽपि वार्दलम् ।।११९।। दावानलोच्छलज्ज्वालाः, पचन्तीव नभश्चरान् । तथा मेरुप्रदक्षिणां, कुर्वतश्च ग्रहगणान् ।।१२०॥[ उत्प्रेक्षालङ्कारः] वनस्थ-प्राणिनां प्राणान्, हन्तुकाम इवाऽनिशम्। तीक्ष्ण-कुन्ताग्रवत्तत्र, जीमूतो वर्षति क्वचित् ।।१२१॥[ उत्प्रेक्षालङ्कार] घनाघनानां सङ्घोषः, विशालाकाश-मण्डपे। सुरासुराणां सङ्घर्ष, इव संश्रूयते सदा ।।१२२।। भीषणरणसङ्ग्रामे, वीरहस्तगतासिवत् । विद्युच्चकास्ति तत्रापि, चित्रा तथा च रौद्रका ॥१२३।। समरे खड्ग-सङ्घर्षों, पतदग्निकणा इव । गगनान्निपतदुल्का, भयं कुर्वन्ति सर्वदा ॥१२४।।[ उपमालङ्कारः] स्थिता अजगरा दीर्घा, वृक्षेषु गिरिमस्तके। मुखमुद्घाट्य सर्वत्र, गिरीणां कन्दरा यथा ।।१२५।।
[उत्प्रेक्षालङ्कारः]
33

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100