Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चम्पूकथा
भवनिस्तारकथा
भीमं भवकाननम्
अयोध्यानामकं ह्यत्र, नगरं विद्यते वरम् । धर्मिचेतश्चमत्कार-पदमद्भुततास्पदम् ।। १।। धनधान्यादिसमृद्धं, विद्या-वाणीमनोरमम् । आस्थानं न्यायधर्मस्य, संस्थानं धर्मचारिणाम् ॥ २॥
निर्झर-सरिता-शैल-वनोद्यान- परीवृतम् ।
श्रीफल-चूत-पुन्नाग-कदली वृक्षमण्डितम् ।। ३।। [ त्रिभिर्विशेषकम् ]
तच्च -
नगरं शोभते क्ष्मायां, शिखरे कलशो यथा । अस्ति तिलकवद्भूमि-लक्ष्म्या ललाट-मण्डनम् ॥४॥
मूर्खोऽपि पटुतां याति, तत्र विद्यालये पठन् । जायते शास्त्रविच्छ्रेष्ठः, विबुधैः परिकर्मितः ॥५॥ त्रिरूपः पुरुषार्थोऽत्र, त्रिमूर्तिवद् विराजते । दान-भोगोपभोगैश्चः, लक्ष्मीदेवी सुशोभते ॥६॥ उद्यानेऽत्राङ्गना भान्ति, नन्दनवन - सदृशे । मदोन्मत्तेभ-गामिन्यः, सुगन्धि- पुष्प-मण्डिते ॥७॥ अत्र च - ध्यान-तपोबलर्द्धिका, विद्याजङ्घादिचारणाः । लोकत्रये हि निर्बाधाश्चरन्तीव गृहाङ्गणे ।।८। सुवर्ण वस्त्र धान्यानां, वाणिज्यादत्र सर्वदा । व्यवसायिजनाः सद्यो, लभन्ते कोटिमुद्रिकाः ॥। ९ ॥ अत्र सुगमसोपाना, निर्मल-जल-संभृताः । शतशो वापिकाः सन्ति, क्रीडोद्यानेन संयुताः ।। १० ।।
मुनितारकचन्द्रसागरः
20

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100