Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
लक्ष्मी-विष्णु-महादेव-बौद्धानामर्हतां तथा। राजन्ते मन्दिराण्यस्मिन्, सुरलोकविमानवत् ।।११।। तथा चाऽत्र - सप्तव्यसनतो मुक्ताः, युवानो धैर्य-धारिणः । राष्ट्रभक्ति-परा वीरा, जनकाज्ञानुयायिनः ।।१२।। रोगातकादनानन्दि-जना वैद्यप्रभावतः। सुवर्णवर्णिनो भूत्वा, वसन्त्यत्र प्रमोदतः ।।१३।। मन्येऽत्र याज्ञिका नित्यं, जगतां शान्तिहेतवे। मन्त्रानुदोषयन्तीति; 'स्वस्ति स्वाहा स्वधा नमः' ।।१४।। उत्तुङ्गः श्यामवर्णीयो, रक्षकै रक्षितः सदा। प्राकारश्चात्र दुर्लयः, परितः परिखावृतः ।।१५।। उदारचित्तदातारो, याचकानामभावतः। पुरेऽस्मिन् दुःखिनः सन्ति; यतः सर्वेऽत्र सुखिनः ।।१६।। दुष्टानां दमने भीमः, कान्तश्च धर्मकर्मिषु । वीरसेनाऽभिधः श्रेष्ठो, नृपोऽत्र शासकः सुधीः ।।१७।। तस्याऽस्ति भव्य-प्रासादः, श्वेतपाषाणनिर्मितः। निवासो भारतीलक्ष्मी-देव्योरिव स दृश्यते ॥१८।। अन्तःपुरेऽस्य साम्राज्ञी, स्वामिसेवानुगामिनी। शोभते शील-शृङ्गारा, पद्मिनी नामतः शुभा ।।१९।। सा च कीदृशी? - उक्तं चाऽन्यत्र पद्मिनी-लक्षणम् भवति कमलनेत्रा, नासिकाक्षुद्ररन्ध्रा, ___अविरलकुचयुग्मा, चारुकेशी कृशाङ्गी। मृदुवचन-सुशीला, गीतवाद्यानुरक्ता;
सकलतनसुवेशा, पद्मिनी पद्मगन्धा ।।२०।। पद्मिनी-लक्षणा राज्ञी, रूप-लावण्यधारिणी। एकदा स्वप्नमैक्षिष्ट, निशाशेषे शुभोदया ॥२१॥ तमो-विलीनीकुर्वन्तं, चकासद्-दन्त-पङ्क्तिभिः । गर्जनेन दिशाः सर्वाः, कम्पयन्तं वनेश्वरम् ।।२२।।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100