Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ निर्मल-स्वर्ण-वर्णीयं, प्रेक्षणीयं समन्ततः। जिह्वां विलोलयन्तं वै, रक्तवर्णात्मिकां मुहुः ।।२३।। सर्वलक्षण-संपन्नं, नेत्रानन्दकरं वरम्। शौर्य-पराक्रम-पुऑ, सौम्यमेकं मृगेश्वरम् ।।२४।। श्रेष्ठं पञ्चाननं स्वप्ने, चित्तचमत्कृतिप्रदम्। स्ववक्त्रकन्दरायां तु, प्रविशन्तं ददर्श सा ॥२५।। चतुर्भिः कुलकम् ] स्वप्नं संप्रेक्ष्य जागर्ति, स्मारं स्मारं पुनः पुनः। सा च रोमाञ्चिता जज्ञेः, शुभभावान्विता तदा ।।२६।। उक्तं च - सुस्वप्नदर्शनाद् भव्य !, श्रेयोऽस्ति शयनं न हि। अर्हतां ध्यानतः स्वप्नं, याति सफलतां ध्रुवम् ।।२७।। इति सूक्त्यनुसारेण, सा पुण्यशालिनी मुदा। प्रातः सूर्योदयं यावद्, ध्यायति स्म जिनेश्वरम् ।।२८।। ततः प्रातः समुत्थाय, स्वामिनमुपगच्छति । नत्वा विनयभावेन, दृष्टं स्वप्नं जगाद सा ।।२९।। चिरं जीवतु हे स्वामिन् !, जयतात् त्वं सदा भुवि । निशीथिन्यां मया दृष्टं, स्वप्नं रोमाञ्चकारकम् ।।३०।। इत्थमावेदितं राज्या, स्वामिने धर्मबुद्धये। वक्ति भूपोऽपि तच्छ्रुत्वा, प्राणप्रिये ! शृणु मुदा ॥३१।। पूर्णे काले पुत्ररत्नं सुलक्षणं प्रसोष्यसे । समन्वितं गुणौघैश्च, सिंहवद् मानवेषु हि ।।३२।। श्रुत्वा स्वप्नफलं भव्यं, स्वावासं सा जगाम च । कुलवृद्धाशिक्षया नु, करोति गर्भ-पालनम् ।।३३।। पुरन्ध्री-हृदयाम्भोजे, समुद्भवन्ति दोहदाः । गर्भपुण्यप्रभावेन, शुभानुबन्धिनः शुभाः ॥३४॥ उक्तं च - जगति महतां पुण्य-प्रभावो गर्भतः खलु । ___ निश्चितेन स्फुरत्येव, प्रकृष्टपुण्यशालिनाम् ।।३५।। राज्या इच्छानुलोमेन, भूपोऽपि यतते सदा। “न पिपर्ति प्रियेच्छां नु, सामर्थ्य सति कः पुमान्?" ।।३६।। 22

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100