SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ निर्मल-स्वर्ण-वर्णीयं, प्रेक्षणीयं समन्ततः। जिह्वां विलोलयन्तं वै, रक्तवर्णात्मिकां मुहुः ।।२३।। सर्वलक्षण-संपन्नं, नेत्रानन्दकरं वरम्। शौर्य-पराक्रम-पुऑ, सौम्यमेकं मृगेश्वरम् ।।२४।। श्रेष्ठं पञ्चाननं स्वप्ने, चित्तचमत्कृतिप्रदम्। स्ववक्त्रकन्दरायां तु, प्रविशन्तं ददर्श सा ॥२५।। चतुर्भिः कुलकम् ] स्वप्नं संप्रेक्ष्य जागर्ति, स्मारं स्मारं पुनः पुनः। सा च रोमाञ्चिता जज्ञेः, शुभभावान्विता तदा ।।२६।। उक्तं च - सुस्वप्नदर्शनाद् भव्य !, श्रेयोऽस्ति शयनं न हि। अर्हतां ध्यानतः स्वप्नं, याति सफलतां ध्रुवम् ।।२७।। इति सूक्त्यनुसारेण, सा पुण्यशालिनी मुदा। प्रातः सूर्योदयं यावद्, ध्यायति स्म जिनेश्वरम् ।।२८।। ततः प्रातः समुत्थाय, स्वामिनमुपगच्छति । नत्वा विनयभावेन, दृष्टं स्वप्नं जगाद सा ।।२९।। चिरं जीवतु हे स्वामिन् !, जयतात् त्वं सदा भुवि । निशीथिन्यां मया दृष्टं, स्वप्नं रोमाञ्चकारकम् ।।३०।। इत्थमावेदितं राज्या, स्वामिने धर्मबुद्धये। वक्ति भूपोऽपि तच्छ्रुत्वा, प्राणप्रिये ! शृणु मुदा ॥३१।। पूर्णे काले पुत्ररत्नं सुलक्षणं प्रसोष्यसे । समन्वितं गुणौघैश्च, सिंहवद् मानवेषु हि ।।३२।। श्रुत्वा स्वप्नफलं भव्यं, स्वावासं सा जगाम च । कुलवृद्धाशिक्षया नु, करोति गर्भ-पालनम् ।।३३।। पुरन्ध्री-हृदयाम्भोजे, समुद्भवन्ति दोहदाः । गर्भपुण्यप्रभावेन, शुभानुबन्धिनः शुभाः ॥३४॥ उक्तं च - जगति महतां पुण्य-प्रभावो गर्भतः खलु । ___ निश्चितेन स्फुरत्येव, प्रकृष्टपुण्यशालिनाम् ।।३५।। राज्या इच्छानुलोमेन, भूपोऽपि यतते सदा। “न पिपर्ति प्रियेच्छां नु, सामर्थ्य सति कः पुमान्?" ।।३६।। 22
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy