SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ गमयामासतुः कालं, तौ सुखेन समाधिना। मासास्तु दिनवज्जाताः, “कालस्य त्वरिता गतिः" ।।३७।। पूर्णराकेन्दुवद् वक्त्रं, चक्रादिलक्षणान्वितम् । साम्राज्ञी सा यथाकालं, प्रसूते स्म वरं शिशुम् ।।३८।। प्रमोदेनाऽथ भूपोऽपि, कुलाचारानुसारतः। करोति सकले राज्ये, पुत्रजन्ममहोत्सवम् ।।३९।। स्वप्ने सिंहावलोकेन, "सिंहसेन” इति शुभम् । स्थापितं नाम पितृभ्यां, दिव्यगुणानुसारतः।।४०॥ वर्धते बालसिंहोऽथ, शुक्लपाक्षिक-चन्द्रवत् । विनीतः दर्शनीयश्चाऽभ्यन्तर-बाह्यरूपतः ।।४१।। सिंहो यदाऽष्टवर्षीयो, जज्ञे शिक्षा-कलोचितः। कलाचार्यं तदाऽहूय, शिक्षायै स समर्पितः ।।४२।। “लालयेत् पञ्चवर्षाणि, दशवर्षाणि ताडयेत्” । इति सूक्तानुसारेण, शिक्षायै स नियोजितः ।।४३।। पराक्रमरुचि/रो, निर्भयोऽभयदः परान् । शैशवात् सिंहसेनोऽय-मासीनिमृगेन्द्र-बालवत् ।।४४।। कलाचार्यान्तिके सिंहः, शस्त्र-शास्त्राणि शिक्षते। गुरुसेवानुरागेण, “सेवा हि वाञ्छितप्रदा" ।।४५।। आर्हतं सौगतं चैव, नैयायिकं च कापिलम्। वैशेषिकं च चार्वाक-मपाठीद् दर्शनं तु सः ॥४६।।[ षड् दर्शनानि] तथा च - षडङ्गानि चतुर्वेदान्, मीमांसा-तर्कवाङ्मयम्। धर्मशास्त्रं पुराणं चाऽधीते विद्याश्चतुर्दश ।।४७।।[ चतुर्दश विद्याः] अङ्ग-भौम-स्वर-स्वप्न-व्यञ्जन-लक्षणादिकाम्। विद्यां वेत्ति निमित्तोत्था तथोत्पातान्तरिक्षजाम् ।।४८॥ [अष्टौ निमित्तशास्त्राणि] अधीता संस्कृता भाषा, शौरसेनी च प्राकृता। अपभ्रंशा च पैशाची, लोकभाषा च मागधी ।।४९।।[ भाषाविज्ञानम् ] 23
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy