Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ सन्धिश्च विग्रहो यानं, राज्यस्य हितकारिणः । आसनमाश्रयं द्वैधमुपलब्धा गुणाश्च षट् ।।५।। सप्ताङ्गमुदितं राज्यं, राजा मन्त्री सुहृत् तथा। कोशो राष्ट्र बलं दुर्गो, विज्ञातं तेन सर्वथा ॥५१॥ अश्वारोह-गजारोह-रथारोहादिका पुनः। इति नैकाः कला-विद्याः, क्रीडेव समुपार्जिताः ।।५२।। अन्यदा कलाचार्येण, नैकयुक्ति-प्रयुक्तिभिः । सम्प्राप्त-कौशलो धीरः, सिंहसेनः परीक्षितः ।।५३।। यत्र नास्ति परीक्षादि, न च पित्रोर्निरीक्षणम् । तत्र विद्यार्थिनश्छात्राः, पठन्ति जातु वा न वा ॥५४।। एतादृशे विवर्ते नु, दुर्लभे नरजन्मनि । शैशवं जीवनं द्रव्यं, मन्ये त्रिकं विनश्यति ।।५५।। अत एव विधातव्यं, विद्यार्थिनां परीक्षणम् । सिंहसेनः परीक्षासु, समुत्तीर्णः सुबोधतः ।।५६॥ लब्ध-विद्ये कुमारेऽथ, कलाचार्येण देशितः।। सपरिच्छद-भूपाल, आगतो हि वनाश्रमे ।।५७।। विद्यानिपुणः सिंहोऽपि, राज्ञा सहाऽऽययौ गृहम् । यथाऽर्थी धनमावर्ण्य, स्वदेशं परदेशतः ।।५८।। शुभेऽह्रि भूपतिः पौरानामन्त्र्य राजसंसदि। राजपुत्रार्जिता विद्या, दर्शयामास त्वद्भुताः ।।५९।। पूर्ण-चन्द्रोपमं सिहं, कलाभिः देहकान्तिभिः । दृष्ट्वा हृष्टाः समे पौराः, प्रशंसन्ति मुहुर्मुहुः ।।६०।। अन्यदा भूपतिर्दूतं, सुहृदमिव संमतम् । प्रेषयामास सिंहाय, स्वान्तर्भावं निवेदितुम् ।।६१॥[ पूर्णोपमालङ्कारः] निशम्य राजसन्देशं, याति सिंहः प्रमोदभाक् । यथा शिष्यो गुरुं गच्छेदाज्ञापालनहेतुतः ।।६२।। विनीतः शिष्यवत् सिंह, उपाक्रमत भूपतिम्। प्रणम्याऽचीकथत् तात !, कामये वचनामृतम् ।।६३॥[तद्धितवृत्ति-पूर्णोपमालङ्कारः] 24

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100