Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ ग्रन्थानां च विपुला सम्पत्तिर्विराजते । तान् ग्रन्थान् सम्यग् वीक्ष्यैव कोऽपि जनः 'आधुनिकहिन्दुविधेः' समीक्षणं कर्तुं शक्नोति । यद्यपि ग्रन्थेऽस्मिन् धर्मशास्त्रोक्ता विधय एकस्मिन् स्थले नैव सन्ति सङ्कलिताः, तथाऽपि तेषां सन्दर्भा यथास्थानं, प्रायशः सर्वत्र प्रस्तुता शोभन्ते । तद्यथा - "हिन्दुविधिशास्त्रे दानमार्गः चतुर्विधः प्रोक्तः- १-देयम् २-अदेयम् ३-दत्तम् ४-अदत्तम्। १-देयम् - दाने दीयमाना सम्पत्तिर्देयशीर्षकान्तर्गता भवति । मिताक्षरायामुक्तम् - 'एवमात्मीयं कुटुम्बानुपरोधेन, कुटुम्बावशिष्टमिति यावत्, तद्दद्यात् तद्भरणस्याऽऽवश्यकत्वात्' मिताक्षरा(याज्ञवल्क्य.२।१७५) । एतदेव याज्ञवल्क्यस्मृतौ उक्तं - 'स्वं कुटुम्बाविरोधेन देयम्' (याज्ञवल्क्य.२।१७५) । नारदेनाऽपि कुटुम्बभरणावशिष्टा सम्पत्तियशब्देनाऽभिहिता भवति । तेनोक्तं - 'कुटुम्बभरणाद् द्रव्यं यत्किञ्चिदतिरिच्यते तद् देयम्' । पुरातन-काले भूमेरदेयत्वमेवाऽऽसीत् । जैमिनि-मीमांसासूत्रस्य शाबरभाष्ये उक्तं - 'न भूमिर्देयेति' । याज्ञवल्क्यस्मृतौ भूमेयत्वं प्रतिपादितम् । उक्तं हि तत्र - 'दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।' (याज्ञवल्क्यस्मृतिः१।३१८)" (आधुनिकहिन्दुविधिः पृ.२०४-२०५)। . आधुनिकहिन्दुविधिः समग्रतया धर्मशास्त्रेषु प्रतिपादितान् विधीन् नाऽनुसरति । समीक्षानन्तरं ग्रन्थकारो विषयमूल्याङ्कने यद् वदति तत् सत्यमूलकमेवाऽस्ति । 'हिन्दुविधिरुपबन्धस्रोतांसि धर्मशास्त्रीयग्रन्थेषूपलभ्यन्ते । अधुना तु हिन्दुविधेर्वर्तमानं स्वरूपं मौलिकस्वरूपतात्पर्यरूपेण पृथग्भूतमाङ्ग्ल-रोमन-मुस्लिमविधिभिर्वैशिष्ट्येन प्रभावितत्वात् । हिन्दुविधिस्वरूपं भारतवर्षे आङ्ग्लशासनकाले परिवर्तितम्, आङ्ग्लविधेर्हिन्दुविधौ समावेशादाङ्ग्लशासकैः' । (आधुनिकहिन्दुविधिः, पृ.२७१) । ग्रन्थेऽस्मिन् को हिन्दुः? - इति तथ्यं नैव विशदीकृतम् । हिन्दुधर्मे वर्णाश्रमव्यवस्था महीयसी विद्यते, किन्त्वस्या नैवाऽस्ति कश्चिदपि समुल्लेख आधुनिकहिन्दुविधौ । धर्मसूत्राणां पुराणानां स्मृतीनां धर्मशास्त्रीयनिबन्धग्रन्थानां वैतिहासिकक्रमो नाऽत्राऽचिन्त्यत । मन्ये श्रुतिग्रन्थानां रचनाकालो विवादास्पदं वर्तते, किन्तु चतुर्वर्गचिन्तामणि-वीरमित्रोदय-निर्णयसिन्धुप्रभृतिग्रन्थानां रचनाकालो निश्चित एव। ____ अस्य ग्रन्थस्य मुद्रणं नितरां शुद्धमस्ति । मुद्रणस्खलितानि प्रायशो नैव सन्ति । नवतितमे पृष्ठे याज्ञवल्क्यस्मृतेः सन्दर्भनिर्देशस्त्रुटिपूर्णो विद्यते । अयं ग्रन्थो न केवलं विधिज्ञानां कृते, अपि तु समेषां संस्कृतज्ञानां, विशेषेण च न्यायक्षेत्रे निरतानां विदुषां कृतेऽतितरामुपयोगी विद्यते । जयतु संस्कृतं संस्कृतिश्च ।। मनी का पूरा (चाँदपुर) सोराम, प्रयागराजः, उ.प्र. २१२५०२ ***** 19

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100