Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ ग्रन्थसमीक्षा सूर्योदयं सूरिवरं प्रणौमि लेखकः – मुनिः अक्षयरत्नविजयः प्रकाशिका - श्रीधर्मकृपा संस्था, दर्भावती प्रकाशनवर्षम् - वि.सं. २०७५ मूल्यम् – नैव निर्दिष्टम् युगदिवाकराचार्यभगवतां श्रीविजयधर्मसूरीश्वराणां सच्छिष्याः पूज्याचार्या श्रीविजयसूर्योदयसूरीश्वराः समजायन्त । तेषां जीवनचरितं विविधायामैरस्मिन् ग्रन्थे समालिखितमस्ति तेषामेव प्रशिष्येण मुनिवरेण श्रीअक्षयरत्नविजयेन। - अत्र पञ्चदशसु परिच्छेदेषु चतुरशीत्या प्रसङ्गश्च सूरिवराणां जीवनस्य बहव आयामाः प्रकटिताः सन्ति मुनिवरेण । मुनिवरस्य लेखनकार्यं गूर्जरभाषायां यथा तथा संस्कृतभारत्यामपि सर्वथाऽनर्गलं प्रचलति । अद्यावधि त्रयो ग्रन्थास्तेन विरचिताः सन्ति, अयं तु तत्सकाशात् प्राप्यमाणश्चतुर्थो ग्रन्थोऽस्ति । तदीया भाषा, शैली, वर्णनरीतिश्च सुतरां श्लाघनीया। अल्पे एव वयसि तेन यज्ज्ञानार्जनं कृतं तद्विनियोगश्चाऽपि विहितस्तत्सर्वं सर्वथाऽनुमोदनीयमस्ति । वयमाशास्महे यदग्रेऽपि संस्कृतसाहित्यस्य वैभवं विभ्राजयन्तो ग्रन्थास्तत्सकाशात् प्राप्येरन् । * ** * * * * 17

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100