Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 19
________________ कुवलं कुबलं परिशोकयुतं, कृतकौशिकपक्षपराभिभवः । कुरुते हि समर्थजनो निजकं, परकं सुसमृद्धिमवृद्धिपरम् ।।१३।। अरुणाक्षमुखः प्रतिपक्षमिवोद्दलति स्म तमःप्रसरं वितमाः। उदयाद्रिगजं रविरात्तजयः, श्रयति स्म तदोषसि चाऽऽशुगतिः ।।१४।। पञ्चभिः कुलकम् ।। तोटकच्छन्दः ।। इति श्रीसहजकीर्तियतीन्द्रविरचिते श्रीफलवर्द्धिपार्श्वनाथमाहात्म्ये महाकाव्ये च्यवन-जन्म-सूर्योदयवर्णनात्मकः तृतीयः सर्गः॥ ***** बालक्रीडावर्णनात्मकः चतुर्थः सर्गः प्रातराशीर्वचःश्रेणिसज्जल्पनं, तूर्यघोषोन्मं गीतगानप्रियम्। राजसद्म प्रभाप्रेमपात्रं बभौ, दीयमाना प्रमाणोत्तमस्पर्शनम् ॥१॥ ज्ञातपुत्रावतारोऽथ भूमीधवोऽमन्यताऽऽत्मानमुच्चैःफलप्रापिणम् । वृद्धशाखीव सम्पूर्णराज्यस्थितिर्नाऽस्ति पुत्रात् समं संसृतौ सत्फलम् ॥२।। रत्नगर्भेति नामाऽजनिष्ट प्रियं, सार्थकं सद्धरावत् प्रमाणं मम। जातहर्षेति वामाऽपि भ; समं, नास्ति सूनोः समं भूषणं हि स्त्रियाः ।।३।। दत्तपार्श्वेति नामा प्रभुः प्रत्यहं, वर्धमानः प्रमोदेन पित्रोरिव । निर्जरालीभिरङ्काङ्कमध्यस्थितः, कल्पवृक्षो यथा पञ्चभिर्मातृभिः ॥४॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100