Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ पुस्तकस्था परा विद्या, प्राप्या किं पठनं विना ?। कृत्वैव भोजनं भ्रातः !, तृप्तिश्शक्तिश्च लभ्यते । अस्तु पुस्तकप्रीतिरस्माकम् । डो.वासुदेव वि. पाठकः 'वागर्थः' ***** यथायोग्ये यथायोग्यं, तथैव च यथापले। यद्याप्तं पुस्तकं योग्यं, तर्हि कल्पतरुप्रभा। महाकविना कालिदासेन रघुवंशस्याऽऽरम्भे सम्यग्विचार्य कृता वन्दना पार्वतीपरमेश्वरयोः । तत्र, वागर्थाविव सम्पृक्तौ तौ, इति निवेदितम् । अपेक्षाऽप्यस्ति 'वागर्थप्रतिपत्तये' । एवं जाते, जायते शब्दपाकस्य काव्यम् । तादृशान्येव काव्यानि जीवन्ति । सुदीर्घकालात् प्राप्तानि तादृशानि काव्यानि, अस्माकं ज्ञानवृद्ध्यर्थं, तदनु च सविशेषां साहित्यसमृद्धिमानेतुमपि कल्पवृक्षसदृशानि भवन्ति। नवं नवं ज्ञानं विज्ञानं च तत्र तत्र सन्दृश्यते पुस्तकेषु । सुचारुतया सगृहीतं सम्यक्तया शनैः शनैः पठ्यमानं च तद् वैचारिकी सम्पत्तिं जनयत्यभिव्यक्त्यर्थं च सामर्थ्यं प्रददाति । समग्रा चैषा चर्चा, निर्दिष्टे श्लोके निवेदिता सारतः। प्रवर्तिता एषा प्रथा समग्रस्य समाजस्य कृते, जनयति नन्दनवन-सौख्यं, परमानन्दं च जनयति । एतदर्थं वाचनप्रवृत्तिप्रोत्साहका गुरवः सबहुमानं प्रणम्यन्ते । फलतः तपः सारस्वतं नः स्याद्, विवृद्धं संस्कृताश्रितम् । गुरूणामाशिषा चैव, प्रीतिरस्तु परात्परा॥ गरिमा देशिकानां या, भवति प्रेरणात्मिका। लोपस्तस्याः कदाप्येव, न भवेदिति प्राप्यते ।। इति शम् ॥ डो.वासुदेव वि. पाठकः 'वागर्थः' ****** भवद्भिः प्रेषितं नन्दनवनकल्पतरोः ४२तममकं प्राप्तवानहम् । एतच्छलाघार्थं मम शब्दकोशे शब्द एव नास्ति । देवभाषोत्थाने भवतां योगदानमप्रतिममस्ति । मम पक्षतो नैकाः शुभाशयाः प्रेषयामि। डॉ. राजेन्द्र जोशी, लोहारदा (जि. देवास, म.प्र.)

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 100