SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ नन्दनवनकल्पतरोर्वाचत्वारिंशी शाखा पठिता । अद्यत्वे प्रायशो जना दूरवाणीलग्ना दृश्यन्ते। ज्ञातव्यानि कार्याणि इ-मेल द्वारा ज्ञायन्ते। पत्रलेखनमपि नास्ति। सर्वं दूरवाणी-मुखेन क्रियन्ते । प्रास्ताविके पुस्तकवाचनस्य यन्महत्त्वमुक्तं तत्तु यथोपपन्नमेव । मोक्षयशा-श्रियः “क्षमा वीरस्य भूषणम्” इति लेखः सर्वेषु स्नेहिष्यामि इति मतिं दढीकरोति । येऽस्मासु निह्यन्ति तेऽप्यस्माभिः स्नेहनीयाः । नेदमेव, येऽस्मभ्यं द्रुह्यन्ति तेऽपि स्नेहितव्या अस्माभिः । एवंविधः स्नेहशीलो जन एव वीरः । श्रीकस्तूरसूरीश्वराणां जीवनवृत्तमिदम्प्रथमतया भवत्कीर्तितैस्तेषामवदानकैः परिचायितम् । यद्यपि तेषां प्राकृतभाषारचना नाऽवगताः, तथाऽपि तेषामेव संस्कृतभाषानिबद्धं “चन्द्रचरित्रम्” तु कुसुममनोहरं द्राक्षामधुरं चाऽस्तीति पठनादनुभूतम् । तत्तु सम्यगास्वादितम् । तत्र “बभूविवान्” इत्यादयोऽपरिचिताः प्रयोगा अपि दृष्टाः । अन्याः कथाः हृदयङ्गमाः। “शाखाच्छेदः” इति कथायां श्येनस्य निकषा इति प्रयोगः दृष्टः । निकषायोगे द्वितीया - इति श्रुतम् । (श्येनं निकषा?)। संस्कृतानुवादेन प्राकृतद्व्याश्रय-महाकाव्यभागश्च आस्वादितः। रवीन्द्रः पालक्काडु ****** सादरं प्रणतयः। पुस्तकं सारस्वतम् । सरस्वत्याः प्रसादजम् । सुज्ञानां सारस्वतावतारः पुस्तके । प्रज्ञायाः परिपाकश्चाऽपि पुस्तके । निरन्तरपठनेन, सूक्ष्मावलोकनेन, नानाविधानुभवेन च समृद्धां स्वकीयां प्रज्ञां शब्दतोऽवतारयन्ति सुज्ञाः। यद्यपि, वक्तव्येऽपि शब्दाः प्रयुक्ताः स्युस्तथाऽपि तत्र शैथिल्यस्य सम्भावना। अन्यतः कस्मिन्नप्येकस्मिन् विषये, स्वस्थतयाकृते ध्याने, यः परिपाकः प्रस्फुरति, स एव पुस्तके प्रस्तूयते। Writing Makes a man perfect. लेखनेन जनः परिपक्वो भवति, यद्यन्यथा वाच्यं तदा, परिपक्वो जन एव लेखको भवति। अतः शास्त्रज्ञानसम्पन्नानां स्वानुभवसमृद्धानां तर्कादिभिः परीक्षितविषयाणां देशिकचरणानां कृपया प्राप्तः पुस्तक-प्रसादः, प्रासादिकः प्रोन्नतिकरश्च भवति । सम्प्राप्य पुस्तकं प्रीत्या, स्वजिज्ञासानुरूपतः। पठंश्चाऽवगत्य प्रीतः, विशिष्टश्शोभते नरः ।।
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy