________________
भावानुवादो रमणीय एव, भाषानुवादोऽपि सुशिक्षणाय।
भाषान्तरं वेद्यमहो महार्थं, यर्थं कथं वा रइ-वत् सुवाच्यम् ।। रविवद्-रतिमत् कमले कुसुमे रइ-इत्यतुलं पदमेकमहो। रयिमप्यथ संस्कृतसङ्गतिकं दिशतीति विशेष उदाहरणम् ॥
यथा च द्याश्रये हेमकाव्ये - पहु सिरिनयरसिरीए जुज्जसि, जुप्पसि तिलङ्गलच्छीए। जुज्जसि कंचिसिरीए, भुंजंतो दाहिणिं इण्हिं ।।।
प्रभो श्रीनगरश्रिया युज्यसे, युप्यसे त्रिलिङ्गलक्ष्म्या।
युज्यसे काञ्चीश्रिया, भुञ्जानो दक्षिणामाभिः ।। चड्डिअनक्का मड्डियमहातडा खड्डिआखिलारामा। पन्नाडिअह्रदपङ्का तुज्झ चमूए कया रेवा ।।
छर्दितनका मर्दितमहातटा खण्डिताखिलारामा।
प्रणाडितह्रदपङ्का तव चम्वा कृता रेवा ॥ इति । पण्डितनरेन्द्रचन्द्रात् भावो वृत्तानुवादतो जातः। भाषापदानुकूलं लिखितं रामेण किञ्चिदिव वेद्यम् ।।
नन्दनवनकल्पतरौ कवयित्र्यः संस्कृते बहुलाः।
दृश्यन्ते सरला अपि, भाषाक्षीरस्य दोहिनीष्विति शम् ।। पालक्काडु-रवीन्द्रस्य वचनं श्लाघने परम् । प्राकृतं संस्कृतेनैवं योज्यतामनुवादतः ।।
ग्रन्थत्रयसमीक्षासु मन्मित्राणि त्रयो बुधाः।
श्लाघिता नन्दनवन-कल्पतरुणेति प्रियं मम ।। अणहिल्लनगरपरिचयविस्मयसुप्रीतहृदयोऽहम् । प्राचीननगरदर्शनलाभायाऽस्ति च समुत्सुको रामः ।।
यशस्तिलकचम्पूस्तु बाल्येऽधीता समग्रतः।
विश्वकोशसमा नागराजस्तस्याऽस्तु सारदा ।। मर्मनर्मसु सन्तोषः श्लाघ्यो न खलु दण्डनम् । वाहनस्थापनस्थाने लिख्यतां वाक्यमुत्तमम् ।।
इति श्रीरामशर्माख्यो यदुशैलनिवास्यहम् । आदितो नन्दनवनकल्पतरुणाऽऽनन्दितोऽलिखत् ।।
इति राष्ट्रपतिप्रशस्तिभाजनं पञ्चभाषाकवितावल्लभः
अरैयर् श्रीरामशर्मा