________________
वाचकानां प्रतिभावः नन्दनवनकल्पतरूं, नु द्वाचत्वारिंशच्छाखाभिः। विस्तृतवपुषं दृष्ट्वा, विद्वत्कल्याणकीर्तिमाशासे ।।
गौरितिशब्दस्साधुः, तस्याऽपभ्रंशसम्भवा नाना।
गायी-गावीत्याद्या, एतत् पातञ्जलं महाभाष्यम् ।। यस्संस्कृतज्ञः प्रकृतिस्वभावः, षट्प्राकृतं तेन विभावनीयम्। यत् प्राकृतं कल्पतरौ प्ररूढं, तस्याऽपि शिक्षाऽस्तु सुसंस्कृतेन ।।
प्राकृतशिक्षणकार्यं, त्वनुवादैस्संस्कृतेन शुद्धं स्यात् ।
भावानुवादमात्रं, भाषाशिक्षणसमीहितं न स्यात् ।। प्राकृतनानारूपाण्यपि, वेद्यान्येव हि संस्कृतज्ञेन। अत एवं पदमैत्री, भाषाभ्यासाय भूयतां भूयः ।।
पद्यस्य तादृशं वृत्तं, माऽनुवादे नियम्यताम् ।
अपभ्रंशस्य मूलं तु, प्रायो योज्यं हि संस्कृते ।। यथा- नेमिसूरिस्तवे -
वाणी जस्स मणप्पसायजणणी वक्खाणवेलुब्भवा संदेहोम्महणी सुधम्मपरमत्थोब्भावणी पावणी। एवं धम्मकहीतिलद्धबिरुदो वक्खाणवायप्फई
वंदेमो जिणसासणुन्नइकरं तं नेमिसूरीसरम् ।। वाणी यस्य मनःप्रसादजननी व्याख्यानवेलोद्भवा
सन्देहोन्मथनी सुधर्मपरमार्थोद्भावनी पावनी। . एवं धर्मकथीति लब्धबिरुदो व्याख्यानवाचस्पतिः
वन्दामहे जिनशासनोन्नतिकरं तं नेमिसूरीश्वरम् ।। एवं - सिरिचंदरायचरिए - असंतोसी दिओ णट्ठो, संतोसी अ महीवई।
सलज्जा गणिगा नट्ठा, निल्लज्जा य कुलंगणा। असन्तोषी द्विजो नष्टः, सन्तोषी च महीपतिः।
सलज्जा गणिका नष्टा, निर्लज्जा च कुलाङ्गना।। इति प्राचीना संस्कृतसूक्तिरेव प्राकृतेऽवतारिता । इदमनलङ्कृतमिव पद्यम् । अलङ्कृतं चाऽस्मद्गुरुपरम्परायां च पद्यम् -
असन्तुष्टो द्विजो नष्टः सन्तुष्ट इव पार्थिवः । सलज्जा गणिका नष्टा, निर्लज्जेव कुलाङ्गना ।।