Book Title: Nandanvan Kalpataru 2019 11 SrNo 43
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ वाचकानां प्रतिभावः नन्दनवनकल्पतरूं, नु द्वाचत्वारिंशच्छाखाभिः। विस्तृतवपुषं दृष्ट्वा, विद्वत्कल्याणकीर्तिमाशासे ।। गौरितिशब्दस्साधुः, तस्याऽपभ्रंशसम्भवा नाना। गायी-गावीत्याद्या, एतत् पातञ्जलं महाभाष्यम् ।। यस्संस्कृतज्ञः प्रकृतिस्वभावः, षट्प्राकृतं तेन विभावनीयम्। यत् प्राकृतं कल्पतरौ प्ररूढं, तस्याऽपि शिक्षाऽस्तु सुसंस्कृतेन ।। प्राकृतशिक्षणकार्यं, त्वनुवादैस्संस्कृतेन शुद्धं स्यात् । भावानुवादमात्रं, भाषाशिक्षणसमीहितं न स्यात् ।। प्राकृतनानारूपाण्यपि, वेद्यान्येव हि संस्कृतज्ञेन। अत एवं पदमैत्री, भाषाभ्यासाय भूयतां भूयः ।। पद्यस्य तादृशं वृत्तं, माऽनुवादे नियम्यताम् । अपभ्रंशस्य मूलं तु, प्रायो योज्यं हि संस्कृते ।। यथा- नेमिसूरिस्तवे - वाणी जस्स मणप्पसायजणणी वक्खाणवेलुब्भवा संदेहोम्महणी सुधम्मपरमत्थोब्भावणी पावणी। एवं धम्मकहीतिलद्धबिरुदो वक्खाणवायप्फई वंदेमो जिणसासणुन्नइकरं तं नेमिसूरीसरम् ।। वाणी यस्य मनःप्रसादजननी व्याख्यानवेलोद्भवा सन्देहोन्मथनी सुधर्मपरमार्थोद्भावनी पावनी। . एवं धर्मकथीति लब्धबिरुदो व्याख्यानवाचस्पतिः वन्दामहे जिनशासनोन्नतिकरं तं नेमिसूरीश्वरम् ।। एवं - सिरिचंदरायचरिए - असंतोसी दिओ णट्ठो, संतोसी अ महीवई। सलज्जा गणिगा नट्ठा, निल्लज्जा य कुलंगणा। असन्तोषी द्विजो नष्टः, सन्तोषी च महीपतिः। सलज्जा गणिका नष्टा, निर्लज्जा च कुलाङ्गना।। इति प्राचीना संस्कृतसूक्तिरेव प्राकृतेऽवतारिता । इदमनलङ्कृतमिव पद्यम् । अलङ्कृतं चाऽस्मद्गुरुपरम्परायां च पद्यम् - असन्तुष्टो द्विजो नष्टः सन्तुष्ट इव पार्थिवः । सलज्जा गणिका नष्टा, निर्लज्जेव कुलाङ्गना ।।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 100