Book Title: Nandanvan Kalpataru 2019 11 SrNo 43 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 3
________________ मर्म गभीरम् - कल्याणकीर्तिविजयः यहूदीय एको धर्मगुरुः बालशेमाभिधः स्वीये रहस्यविद्यालये वसति स्म । स प्रत्यहं रात्रौ नद्यास्तटेऽटनं करोति स्म, कञ्चित् कालमुपविशति स्म, निशीथे च स्वनिवासं प्रत्यायाति स्म । एतेन तस्य मनःस्वास्थ्यं सदा समीचीनमवर्तत, ध्यानं च पुष्टं भवति स्म। एकतो रात्रेर्गहनोऽन्धकारो अन्यतश्च नदीतटीया परमा शान्तिः । ईदृशे वातावरणे सहजतयैव मनः स्थिरीभवेत्, समाधिश्च सिध्येत् । स तत्र किमप्यकृत्वा केवलं स्वं स्वीयवृत्तीश्च साक्षितया निभालयति स्म । अयं क्रमो वर्षाणि यावदखण्डतया वरीवर्ति स्म । तस्य साधनाऽपि सर्वथाऽक्षुण्णतया प्रवर्तते स्म। अथाऽन्यदा निशीथे स्वनिवासं प्रत्यागच्छन् बालशेमः केनचिद् धनिकगृहरक्षकेणऽऽहूतः कथितश्च - “भो ! धर्मगुरो! यदि भवतो बाधा न स्यात् तदा किञ्चित् प्रष्टुमिच्छामि। भवान् प्रत्यहं रात्रौ नदीतटं गत्वा मध्यरात्रे प्रतिनिवर्तते । बहुवारं मया भवाँस्तत्र गच्छन् प्रत्यागच्छंश्च विलोकितः । कदाचिच्च भवतः पृष्ठत आगत्य, तत्र स्थित्वा भवान् किं करोतीत्यप्यवेक्षणं कृतम् । परं भवाँस्तु केवलं निःशब्दतया नदीतटे उपविष्टो भवति । न किञ्चिदपि कुर्वन् दृश्यते । अतोऽहं ज्ञातुमिच्छामि यद् भवान् तत्र किं करोति ? भवतो निर्वाहः कथं भवति ? एवमुपवेशनेन भवता किं वा प्राप्यते ? तत्र किञ्चिद् रहस्यमिवास्ति वा ? कृपया मे जिज्ञासां शमयतु"। बालशमेनोक्तं - "भो! अहं जानामि यद् भवान् मां प्रत्यहमवलोकयति, तथा मे पृष्ठत आगत्य मां च पर्यवेक्ष्य निर्गत इत्यपि मम ज्ञातचरमेव । अतो ममाऽपि भवादृश्येवोत्सुकताऽस्ति यत् को भवान्, किं वा भवतः कार्यमिति"। दौवारिकेणोक्तं- “अहं त्वेकः सामान्यो गहरक्षकोऽस्मि"। बालशेमेनोक्तं- "अहो प्रभो! कीदृशी भवतः करुणा ! अरे महानुभाव ! अहमपि भवादृशो रक्षक एवाऽस्मि" । रक्षक आह स्म - "भवत्कथनं नाऽवबुध्ये भोः! । यदि भवान् रक्षकोऽस्ति तर्हि रात्रौ नदीतटे उपविश्य किं वा रक्षणं कुर्वन्नस्ति !”। बालशेम उक्तवान् - "भोः सर्वोऽपि विशेषोऽत्रैवाऽस्ति । भवान् कस्यचिद् गृहे रक्षकत्वं समाचरति, तद्गृहे न केनचित् प्रवेष्टव्यमिति च सर्वकालं निभालयति । परमहं तु स्वस्यैव रक्षां कुर्वन् पर्यवेक्षे यत् कोस्त्ययं रक्षकः, किं करोति, कुत्र वा गच्छति, कथं वा जीवतीति, आजीवनं ममैतादृशमेव रक्षकत्वम्। स्वस्यैव रक्षकोऽहमस्मि"। "एतत् कार्यं तु सर्वथाऽद्भुतम् । किन्त्वेतदर्थं भवते वेतनं को वा दद्यात् ?" “भोः! अस्य कार्यस्य करणे मयाऽसीम आनन्दः प्राप्यते, चित्तनैर्मल्यं च सदा वर्तते । एतदेव | मत्कृते महद् वेतनम् । आर्थिकसाफल्यादप्येतस्मिन् कार्ये मे जीवनसार्थक्यं भवतीति नाऽन्यत् किञ्चिदिच्छामि। “एवं वा ? तर्हि ममाऽपि तादृशं रक्षकत्वं शिक्षयतु येनाऽहमपि स्वरक्षकत्वं कुर्वे भवत्तुल्यतया च वेतनत्वेनाऽसीममानन्दं चित्तनैर्मल्यं च प्राप्नुयाम्” । ********Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 100