Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अलक्ष्याऽसह्या यैर्बहुकलितदुःखा नृनयनैः त्रिलोकी भिन्दाना शठकमठजाता समसहि ॥३०॥ सदा देवासेवान्त्यजत उपकाराय सहसा यदूनां दूनानां क्षितितलमलङ्कुर्वत इव ।। जराजीर्णा दीर्णाः स्नपनजलतस्तेऽमृतभुजः प्रसन्नाः संपन्ना यदुकुलभवारूपमतुलम् ॥३१॥
॥ शार्दूलविक्रीडितवृत्तम् ॥ श्रीदेवासुरसंस्तुतक्रमयुगो भव्याब्जभानूदयः श्रीदेवत्वमचिन्त्यशक्तिकलितः पापप्रणोदक्षमः ।। आश्चर्यं प्रतिभाति यच्छिवपदे दूरेऽपि संस्थायको भव्यानां विपदः करोषि विपदाः सत्सौख्यकल्पद्रुम ! ॥३२॥ स्याद्वादामृतवर्षिणी भगवती यद्वक्त्रनिःस्यन्दिनी गीः शृण्वन्नरनाकिलोकहदयानन्दाश्रुदानक्षमा ॥ मुग्धान्तस्थितिकप्रमोहतिमिरवाते तु सूर्यप्रभा श्रीपार्श्वः स करोतु भव्यभविनामानन्दवृद्धि सदा ॥३३।। त्वन्नामस्मरणाद् भवन्ति विबला व्याघ्रादयः प्राणिनस्त्रैलोक्यं स्वबलाज्जिघत्सुरिव यो दन्दह्यमानो दवः । सोऽपि त्वत्स्मरणाद्विमूढनरवत् किञ्चिन्न कर्तुं क्षमः ॥ स त्वं वाञ्छितदायको विजयसे शङ्केश्वर ! श्रीप्रभो ! ॥३४॥ अद्यैवोत्तमताऽभवच्च शिरसो यत्त्वत्रतेः साधनं हस्तौ मे सफलत्वमञ्जलिकृतेराप्तौ जिनेशस्य ते ॥ अद्यैवोत्तमतां दधाति दिवसो मे प्राप्तपुण्योदय इत्याल्हादभरेण नौम्यभयदं शङ्केश्वरं सौख्यदम्
॥३५॥
सर्याश्वैविरतं बधैरिह भवेत् पूर्वं मसंज्ञो गणस्तस्मात्स्यात्सगणस्ततश्च जगणस्सस्स्यात् ततोऽनन्तरम् । तस्मात्तश्च ततस्स एव यदि चेदेकेन गेनाऽन्वितः । यस्मिंस्तत्कथितं I विशुद्धमतिभिश्शार्दूलविक्रीडितम् । उट्टवणिका यथा 555 ॥ऽ ।। ||S 55। 55। 5 ॥३७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114