Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ शचीपत्यादौ तत्र) अन्वर्थे वर्तेत। तथा विवक्षिते पुरुष तु तन्नाम न । शचीपत्याद्यर्थमपेक्षते इति तदर्थनिरपेक्षम् । यादृच्छिकं नाम, न केवलमिन्द्रादीनि लोकप्रसिद्धनामानि परन्तु स्वेच्छया स्वविवक्षया वा डित्थ-डवित्थादीनि नामान्यपि कर्तुं शक्यान्ये।। एते द्वे अपि नामनी सामान्यतो यावद्रव्यं प्रायशो वर्तेते । विशेषतस्तु मेर्वादिषु शाश्वतवस्तुषु नाम सर्वदा वर्तेत, अनित्यवस्तुषु तु घटादिषु परावर्तेताऽपि । एवं द्वेधा नामस्वरूपमुक्तम् । एवमेव पुस्तकादिषु लिखिता इन्द्र-प्रमुखा कर वर्णावल्यपि नामत्वेनैवाऽभिधीयते । अथ सोदाहरणं नाममङ्गलमाह- मङ्गलार्थशून्ये वस्तुनि यन्मङ्गलमिति 0 नाम क्रियते लिख्यते वा तदेव नाममङ्गलम् । यथा देशीभाषायां ज्वलनो मङ्गलनाम्ना र ढोऽस्ति, सिन्धुदेशे देवरकस्य वलनकं वेष्टनकं (Reel) वा मङ्गलशब्दाभिधेयम्। Y लाटदेशेषु च वन्दनमाला (सहकारपत्रमाला) मङ्गलपदवाच्याऽस्ति । तदेवं नाममङ्गलमुक्तम् । इदानीं स्थापनामङ्गलं चिकथयिषुराचार्यः प्रथमतः स्थापनास्वरूपमेवाऽऽह । यद् वस्तु तदर्थशून्यमपि तदभिप्रायेण तादृशाकारयुतं निराकारं वा क्रियते स्थाप्यते सा स्थापना । यथा इन्द्रादेर्लक्षणैः शून्येऽपि वस्तुनि इन्द्राद्यभिप्रायेण चित्र-काष्ठकर्मादिभिस्तदाकारा विरच्यन्ते निराकारं वाऽक्ष-वराटिकादि वस्तु इन्द्रादितया परिकल्प्यते सा स्थापना । सा च द्विविधा इत्वरा यावत्कथिकी च । तत्रेत्वरा नामाऽल्पकालमेव या चित्रादिषु स्थापना क्रियते सा। यावत्कथिकी च () नन्दीश्वरद्वीपादिषु वर्तमानानां शाश्वतचैत्यप्रतिमादीनां स्थापना । अत्र च, तिष्ठतीति ४ स्थापना - इति समगोक्ता व्युत्पत्तिर्ज्ञातव्या। स्थापनामङ्गलमाह - लोके या स्वस्तिकादीनां मङ्गलतया स्थापना क्रियते - V सैव स्थापनामङ्गलम्। . अशः नलं व्याचिख्यासुराचार्यः प्रथमं तावद् द्रव्यस्वरूपमाहद्रवति-तांस्तान् स्वपर्यायान्-प्राप्नोति मुञ्चति वेति द्रव्यम् । 27 श्रूयते-स्वपर्यायैरेव मुच्यते प्राप्यते वेति द्रव्यम् । (अत्र ये पर्याया ) द्रव्यं प्राप्नुवन्ति तान् द्रव्यमपि प्राप्नोति । यैश्च पर्यायैव्यं मुच्यते तान् द्रव्यमपि २० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114